पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवस्थोचिता वृत्तिम् ॥ २० ॥ दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां समुताम् । सुचिरं विमृश्य भेजे कार्यं सहसा न विदधीत ॥ २१ ॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ।। २२ ।। शतयोजनततमब्धिं विलङ्घ्य वातात्मजोऽविशल्लङ्काम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ २३ ॥ प्रहितः सुरैजिंगीपुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् । भस्मीबभूव तावन्न चिकीर्षेद्दुष्करं कर्म ॥ २४ ॥ संकुट्य पादघातैः कालिन्द्यां कालियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५ ॥ कुलिशाहतिहृतशिरसेऽप्यदात्कबन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६ ।। सुग्रीवाय शुकः खादशमुखसंदेशमादिशन्कपिभिः । संताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७ ॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८ ॥ भोगान्बहून्ययातिर्भुक्त्वा वयसा सुतस्य चिरकालम् । निरविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ।। २९ ।। बलिरिन्द्रजित्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः । सुतलेऽवध्यत पाशैर्भोगान्क्षणभङ्गुरान्विद्यात् ॥ ३० ॥ विलपन्तं हतपुत्रं धृतराष्ट्रं वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सास्रं दुःखितमनु दुःखितो भूयात् ॥ ३१ ॥


१. एतनामकं सर्पम्. २. कबन्धकथा वाल्मीकिरामायणेऽरण्यकाण्डे द्रष्टव्या, ३. सारणसहचरो रावणदूतः. ४. निर्वेदं प्राप.