पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४ ॥ हत्वा खसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५ ॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनित्रतो राज्यम् । शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ ४६ ॥ कृष्णधनंजयभीमान्द्विजवेषस्थाञ्जरासुतश्चिह्नः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७ ॥ यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ १८ ॥ कुर्वन्नपि मुनिशप्तः खजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ १९ ॥ सदिति प्रतीयमानं जगन्मृति केवलं बुद्ध्वा । जनको विमुक्तिमागात्स्वामवदन्तर्जगद्बोध्यम् ॥५०॥ विहरवधूभिरन्तःपुरेऽग्निवों दिवानिशं कामी । ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ ५१ ॥ विप्रः पतिर्वृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ ५२ ॥ निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्क्षेत ।। ५३ ॥ युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ ५४ ॥ पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषधो गत्वा । सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ।। ५५ ॥


1. 'स संचरिष्णुर्भुवनान्तराणि याम्' (१।४६) इत्यादि शिशुपालवधश्लोकानुसा- रिणीयमार्या. २. अग्निवर्णकथा रघुवंशस्यैकोनविंशे सर्गे प्रसिद्धैव. ३. लोकप्रसिद्धवेयं कथा. रामायणादिषु न प्राप्यते. ४. नलभ्राता. ५. नला.