पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । सारं सारङ्गसंधैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥ ३१ ॥ या माला विष्णोरंसे साकम्पमीषत्कम्पसहितं यथा स्यात्तथा वसति । सामान्सुखै- र्योजयन्ती सती न विरमतु । किंलक्षणा । जयन्ती जयकरी जयन्याख्या वा । वायौ मारुत आनुकूल्यात्सरति वहति सति साकम्पमिति योज्यम् । मणिरुचा कौस्तुभप्रभया साकं सह भासमानात एवासमानानुपमा । तथा वासुभद्रं वासुदेवं सुभद्रं शोभनं विद- धती । भूषयन्तीत्यर्थः । तथा सारङ्गसंधैर्भ्रमरसमूहः सारं यथा स्यात्तथा मुखरितकुसुमा। तथा मेचकान्ता श्यामवर्णकुसुमगुम्फितप्रान्ता । अत एव कान्ता। तथा मालालिता वक्षःस्थया लक्ष्म्यानुमोदिता ॥ हारस्योरुप्रभाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्य- च्छ्रीभिश्चाप्यङ्गदानां शवलितरुचिभिनिष्कभाभिश्च भाति । बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त- द्बन्धार्ति बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥ ३२॥ अजितस्य भगवतस्तद्वाहुमूलमंसदेशमभियाचामहे प्रार्थयामहे । किंलक्षणम् । बन्धुरं सुन्दरम् । किं कृत्वा । बाहुल्येन पुनःपुनरेवाञ्जलिपुटं बद्धा । किं याञ्चयेति चेत् । नोऽस्माकं बहुवितिकरीमनेकानर्थकरीं बन्धाति बन्धनरूपां पीडां बाधताम् । संसार- निगडादस्मान्मोचयत्वित्यर्थः । यद्बाहुमूलं हारस्योरुप्रभाभिरतिकान्तिभिः । तथा प्रतिव- नजातपुष्परचितवनमालाया अंशुभिरंशस्थानीयैर्विचित्रवर्णैः । निष्कस्य भूषणविशेषस्य भाभिः शबलिता रुचयो यासाम् । ताभिरमदानां बाहुभूषणानां श्रीभिर्भांति । प्रांशुभिरि- त्यंशुविशेषणम् ॥ विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् । शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं बिभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो मोहहानिम् ।। ३३ ।। हरेर्बाहवो मम मोहहानिं ददतु । किविशिष्टाः । विश्वस्य जगतनाणे रक्षण एका मुख्या दीक्षा व्रतधारणं येषाम् । अत एव तस्य विश्वत्राणस्यानुगुणा योग्या गुणाः शौर्यादयो यस्य तादृशक्षत्रस्य निर्माणे दक्षाः समर्थाः । दुर्निरूपाः । एते एवंप्रकारा इय- न्तश्चेत्सवधारयितुमशक्याः । तथा स्फुटगुरुयशसामविस्पष्टमहत्ख्यातियुक्तानामद्भुतानां कर्मणां पराक्रमाणां कर्तारः । तथा शार्ङ्ग धनुः, बाणम् , कृपाणं खड्गम् , फलकं चर्म, अरि सुदर्शनं चक्रम्, गदा कौमोदकी, पद्मम् , शङ्खः पाञ्चजन्यः, इत्येवंविधमन्यच्च सहस्रमपरिमितं शस्त्रजालं बिभ्राणाः । सहस्रं बाहव इति वा योजना ||