पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाल्य कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोस्रैल्दारै- रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्रूरूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठमावं विहाय ॥ ३४ ॥ अत्र वैकुण्ठस्य विष्णोरयं वैकुण्ठीयस्तस्मिन्कण्ठे मम मतिः फुण्ठभावमालस्यं विहाय वसतु स्थिरीभवतु । यैः कण्ठाकल्पाः कण्ठभूषणानि तेभ्य उद्गतैरुद्योतैः। तथा कनकमये लसन्ती ये कुण्डले तयोरुस्रै: किरणैः । उदारैर्मनोहरैरिष्टार्थदैर्वा । तथा कौस्तुभस्या- प्युरुभिरुद्योतैरुपचितः सन् । चित्रवर्णो विभाति । पुनः किंलक्षणे । कण्ठे रमायाः कण्ठाश्लेषे लक्ष्मीकृतकण्ठालिङ्गने सति तस्या एव करवलयपदैर्मुद्रिते । अत एव भद्ररूपे सुन्दराकारे॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ ३५ ॥ असौ श्रीभर्तुर्दन्तवासो दन्ताच्छादनम् । ओष्ठद्वयमिति यावत् । स एव घुमणिः सूर्यो नोऽस्माकमघतमोनाशनाय पापान्धकारदूरीकरणायास्तु । किंलक्षणः । पद्मा लक्ष्मीस्तस्या आनन्दप्रदाता । तथा परिलसन्ती यारुणश्री रक्तवर्णा कान्तिस्तया परीतो व्याप्तोऽप्रभागो यस्य । तथा काले काल उचितसमयेषु कम्वुप्रवरः शङ्खश्रेष्ठः स एव शशधरश्चन्द्रस्तस्यापूरणमाध्मानं तत्र यः प्रवीणः । तथा वक्ररूपो य आकाश- स्तस्यान्तरे मध्ये तिष्ठतीति तथाविधः सन् । दन्तरूपाणां ताराणामोघः समूहस्तस्य शोभां तिरयत्यभिभवति । प्रसिद्धोऽपि द्युमणिः पद्मानामानन्दप्रदाता । अरुणः सूर्यसा- रथिस्त्रच्छ्रिया परीताग्रभागः । काले काले शुक्लपक्षतिथिषु चन्द्रस्य वृद्धिकरणे प्रवीणः । आकाशमध्यस्थः सन् । तारौघशोभा तिरस्करोति ॥ नित्यं स्नेहातिरेकानिजकमितुरलं विप्रयोगाक्षमा या वक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्ताफलश्री- दन्ताली संततं सा नतिनुतिनिरतान्रक्षतादक्षता नः ॥ ३६ ।। सा लक्ष्मीकान्तस्य दन्ताली दन्तपङ्किर्नतिनुतिनिरतान्नमस्कारस्तुतितत्परान्नोऽस्मा- न्संततं रक्षतात् । किंलक्षणा । अक्षता क्षतरहिता । निरन्तरेति यावत् । कान्ताकृति- र्मनोहराकारा । तथातिविलसतामत्यन्तशोभिनां मुग्धानां सुन्दराणां मुक्ताफलानां