पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उत्फुल्लैः परिपीय कर्णपुटकैर्वंशीनिनादामृतं
तञ्च प्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् ।
निःस्पन्दैर्नयनैरमन्दमधुरैः श्यामं महस्तावकं
येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८ ॥

जम्भारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं
कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः।
सोऽस्तु निग्धतमालसारघटितस्तम्भैकसंभावित-
प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९ ॥

त्ववाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल-
द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव ।
शैले चञ्चलतां गते ब्रजपते त्रासात्कुले गोकुले
नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥

पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते
कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः ।
किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्वाणयुद्धे जितः
संमोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया(१) ॥ ७१ ॥

पीते दाबहुताशने निजजनत्राणैकहेतोस्त्वया
निःस्पन्दं पशुपौधपक्षिपशुभिः पेपीयमाने त्वयि ।
प्रेमाद्रीण्यतिनिर्मलानि दिविषच्चित्तानि सत्यं मुहु-
स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ॥

ककेलिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं
पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः ।
उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा.
त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः ॥७३॥

सायाहे समुदञ्चति श्रुतिपथं वंशीनिनादे हठा-
नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते ।


१. सादरं विलोक्यमाने.