पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्णं बहि-
दृग्भ्यां ते मुखसौरभं चुलकितं याभिर्भजे ता जनीः ॥ ७४ ॥

यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः
क्रोधाग्नौ भवता हुता दितिसुताः संतर्पिता देवताः ।
यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं
भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७५ ॥

देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः
संपश्यन्नपि वैभवं ब्रजकुलोत्तंस प्रचेतास्तव ।
नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः
स्थाने तादृशि ते बभूव न मनाकोघस्य लेशोऽपि तत् ॥ ७६ ॥

मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते
वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति ।
काम पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू-
वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥

नृत्यनयनोत्पलसितमुखविद्यकपोलस्थलं
लीलाचञ्चलकुण्डलं भुजलतान्दोलकणकणम् ।
त्रुट्यत्कञ्चकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल-
नीवि व्यजितशिञ्जितं जयति ते रासः प्रियाभिः सह ॥ ७८ ॥

आकुञ्चद्वदनं कचिद्विलसिताम्भोजास्यशोमं क्वचि-
न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्चापलं कुत्रचित् ।
काप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विद्युल्लता-
चाञ्चल्यं मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥

अध्यास्योरुतलं वपुः पुलकितं खिद्यत्कपोलस्थली
दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिनति ।
प्रोद्यत्पूर्णकलानिधावरुचिरे मेरे मुहुःसीत्कृते
राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८० ॥


१. वचः.२. युतम्.