पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः
पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धुनी ॥ ६१ ॥

यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा-
प्राप्तो भक्षितकालकूटनिकरो मृत्युंजयत्वं ययौ ।
दिग्वासा नृकपालमात्रविभवश्वाविन्ददीशानतां
स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२ ॥

धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं
व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् ।
यालोक्याईविलोचना स्मितमुखी प्रस्यन्दमानस्तनी
पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३ ॥

पीत्वा स्तन्यविषं सहासुपवनैः संपातिते पूतना-
देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् ।
राहून्मुक्तसुधामयूखसुषमा यादृक्चकोरालिभि-
र्यानिस्त्वद्वदनद्युतिश्बुलुकिता ता गोपकन्याः स्तुमः ॥ ६४ ॥

यद्वन्धस्य विधित्सयापि विवशः कीनाशपाशै ढं
बद्धः सानुगपुत्रवान्धवजनो दुर्योधनोऽन्तं गतः ।
तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता
जातानन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५ ॥

निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः
पीत्वा हक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः ।
त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता
ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धास्तुमः ॥ ६६ ॥

कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं
तस्योत्तव्यसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि ।
येनालम्भि विभातभास्करसुरप्राम्भारशोभास्कुर-
द्रनाम्भोजयुगद्यतिः प्रतिपदं तत्तेऽङ्गियुग्मं भजे ॥ ६७ ॥