पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पीयूषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः
प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् ।
तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं
यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५ ॥

सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे
गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् ।
पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते
मञ्जीरद्वयमञ्जुशिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ॥ ५६ ॥

आकृष्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः
कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः ।
येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति-
स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ ५७ ॥

हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं
क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः ।
स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां
तत्संपर्कवशादिति ब्रजकुलालंकार शङ्कामहे ॥ ५८ ॥

क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं
किं वा केवलकोमलः श्रयति चेत्किंचिन्मदीयं पदम् ।
धन्यः सोऽयमितीव लोकमखिलं संबोधयन्माधव
त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९ ॥

त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया
ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः खीया धृताः संपदः ।
तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृतिं
बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६०॥

त्वत्पादाम्बुजसंगमात्रिजगतां वन्द्यारविन्दालया
स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं संपदाम् ।