पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

युक्तं न तत्तव कषायरसप्ररोहै-
रेतान्प्रतारयसि यत्कलकण्ठयूनः ॥ ६९ ॥

स्निग्याग्राः फलिनो दलत्परिमलैः पुष्पैर्मधुस्यन्दिनो
नानन्दाय भवन्ति किं वनभुवां भूमीरुहो भूरिशः।
माधुर्यं मधुनस्तवैव विदितं माकन्द मन्यामहे
माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ ७० ॥

विमुक्ता वासन्ती बकुलकुसुमे नापि मिलित
व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः ।
यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं
विदूरान्माकन्दः स खलु दलितो यूथपतिना ॥ ७१ ॥

उन्मीलयन्ति कुसुमानि मनोरमाणि
के नाम नात्र तरवः समयोचितानि ।
कस्येदृशं कथय दोहदमस्ति तस्य
याग्विनिर्मितमशोकमहीरुहस्य ॥ ७२॥

दुदृत्तषट्पदघटाअविभवेन किं नु ।
वामभ्रुवां चरणताडनदोहदानि
किं नाम न स्मरसि तावदशोक तानि ॥ ७३ ॥

करट कलकण्ठशावकमेनं पुष्णासि किं मुधायासैः ।
अयमिह पुरा सपक्षः परिचयमपि ते न जानीते ॥ ७३ ॥

कलयसि मृणालकन्दं विहरसि बिसिनीदलेषु सानन्दम् ।
अयि राजहंस शंस त्यजसि मनोहारि कथमिदं वारि ॥ ७५ ॥

नेदं सरः सरसवारि न वारिजं वा
नैतन्मधूनि मधुपाः सहवासिनो वा ।
हेमारविन्दवनवासविलासभाजो
रे हंस मानसजुषस्तव मानसेऽपि ॥ ७६ ॥