पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विभ्रम्य काननमसौ दिवसावसाने
त्वय्येव षट्पदयुवा हृदयं बबन्ध ।
राजीव चेन्मलिनिमानमुरीकरोषि
कः स्यादहो मधुलिहामधुनावलम्बः ॥ १२ ॥

मिलसि मनोज्ञे मनसा मालति मलिनेन वारिवाहेण ।
कुसुमाकरे विरज्यसि मुग्धे वैदग्ध्यमीदृशं कस्मात् ॥ ६३ ॥

सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पंधयां-
ल्लूतातन्तुवृतस्तथापि कियतीस्त्वं यापयेर्यामिनीः ।
अस्मिन्दाशपुरे पुरस्तत इतो विन्यस्तचित्रामिषे
मालाकारमृते लवङ्गि ललितान्कस्ते गुणाज्ञास्यति ॥ ६४ ॥

संदर्शयख मधुवैभवमस्ति यत्ते
रे कुन्द किं दुरभिमानमुरीकरोषि ।
एतन्न चेतसि करोषि सरोजबन्धुः
पुष्पंधयोऽपि मयि सौरभमातनोति ॥ ६५ ॥

एष षट्पदयुवा यदायताः कुन्द यापयति यामिनीस्त्वयि ।
दुर्वहा तदपि नापचीयते पद्मिनीविरह वेदना हृदि ॥ ६६ ॥

आखायैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो
माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु ।
माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी
को ब्रूतामसतां सतां द्विजनुषां मर्मातिगं चेष्टितम् ॥ ६७ ॥

न पश्यति लवनिकां न च निषेवते मालती
रसाल रसिकस्तथा न नलिनीवनीमञ्चति ।
भवन्तमयमीहते मधुपलक्षपक्षानिलाः
क्षिपन्ति यदमुं जने जयति तत्तवैवायशः ॥ ६८ ॥

शश्वन्निसर्गमलिनाः सहकार काम
लुण्ठन्ति तान्यपि मधून्यहह द्विरेफाः ।