पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अत्र स्नातमिहोपभुक्तममलं भूयो मृणालीदलं
याभ्यां शश्वदिहान्वभूयत सुखं कल्लोलहिन्दोलजम् ।
कष्टं तावशनिध्वनिप्रणयिभिः प्रौढानिलास्फालितैः
स्फाराम्भोधरमण्डलैविघटितौ चक्राङ्गचक्राह्वयौ ॥ ७७ ॥

दूरादेष निशां निरस्य ककुभामुन्मूल्य गाढं तमः
प्रेमाणं युवयोर्व्यनक्ति तरणिर्विश्लेषदुःखं नुदन् ।
एतस्याङ्ग स्थाङ्ग चण्डमहसो मा गाः समीपं ब्रज-
प्रीति हास्यसि निष्पतिष्यसि पुनर्निर्दग्धपक्षः क्षणात् ॥ ७८॥

आयातैव विभावरी विभजते नो निर्दयोऽयं विधिः
स्रतापाङ्गि स्थाङ्गि पश्यसि मुधा चित्तव्यथां मा कृथाः ।
दैवं संप्रति गर्हयाव बहुशो निर्माय येनावयो-
गांद प्रेम विनिर्मितः प्रतिनिशं विच्छेदखेदो महान् ॥ ७९ ॥

कूपेऽम्भांसि पिबन्तु कूपरसिका वापीषु वापीजुषो
नादेयाश्च पतत्रिणोऽपि नितरामास्वादयन्तां पयः ।
सारङ्गस्य नभोनिवेशितदृशः किं तेन यावन्मही-
मम्भोभिः नपयन्नसावुदयते न प्रावृषेण्यो घनः ।। ८० ॥

तापं लुम्पसि सर्वतो वितनुषे मुक्ताफलं शुक्तिषु
क्षेत्रान्सिञ्चसि किं च पल्लवयसि श्रीखण्डमुख्यान्द्भुमान् ।
क्षारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे
विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान् ॥ ८१॥

ऊपरेषु विवरेषु चाम्भसां वीचयोऽपि भवता प्रवर्तिताः ।
क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ ८२॥

संपादिताः सपदि दर्दुरदीर्घनादा
यत्कोकिलाकलरुतानि निराकृतानि ।
निष्पीतमम्बु लवणं न तु देवनद्याः
पर्जन्य तेन भवता न कृतो विवेकः ॥ ८३ ॥