पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यालापकलाकलापकलनावैदग्ध्यदीक्षागुरो-
भूमीकल्पतरोरशेषजनतासंगीतकीतैरिह ।
तस्याज्ञामधिगत्य यः कविकुलानन्दाय संपादितः
संदर्भस्तममत्सराः कृतधियः कुर्वन्तु कर्णातिथिम् ॥ १७ ॥

जिह्मो लोकः कथयति पुरो हन्त हित्वा गुणौघा-
नम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य ।
विष्वक्छिद्रानुसरणसमारूढसर्वेन्द्रियाणां
दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु ।। १८ ॥

गुणिनां गुणेषु सत्वपि पिशुनजनो दोषमात्रमादत्ते ।
कुसुमे फले विरागी क्रमेलकः कण्टकौघमिव ॥ १९ ॥

सुजनानामपि हृदयं पिशुनपरिष्वङ्गमलिनमिह भवति ।
पवनः परागवाही रथ्यासङ्गे रजस्वलो भवति ॥ २० ॥

लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् ।
लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ २१ ॥

पिशुन समारोहसि किं सुजनसमाजानमीष्टसौजन्यः ।
करटोऽपि किं नु लभते कलकण्ठपदं रसालमौलिगतः ॥ २२॥

द्विरदरदनप्रौढाघातान्न तादृशसंभ्रमः
परशुपतनादस्य त्रासो न हन्त तथाविधः ।
अयमविरतं क्रोडे क्रीडन्हताशहुताशनो
दलयति यथा मर्मात्यर्थं तरोन तथापरः ॥ २३ ॥

आपातमलिनिमासौ सहृदयहृदये न दोषाय ।
अङ्गारयोगजन्मा निसर्गशुद्धे यथा स्फटिके ॥ २४ ॥

केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ
विश्वं तोयैः नपयितुमसौ केन वा वारिवाहः ।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः
श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ॥ २५ ॥