पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भः करैः
कस्माद्वा जलधारयैष धरणिं धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः
साधूनां हिं परोपकारकरणे नोपाध्यपेक्षं मनः ॥ २६ ॥

तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महद्भयः ।
अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्बः ॥२७॥

कुम्भोद्भवस्य करपुष्करकोषकोणे
पाथोनिधौ विधिवशाद्विपदं प्रयाते ।
ये दुर्लभाखिदिवलोकविलासिनीनां
ते पङ्कसीमनि महामणयो लुठन्ति ॥२८॥

गरलं यदि जलराशेरिदमुत्पन्नं किमेतेन ।
तेनैवास्य तु महिमा यदभूत्पीयूषपारिजातादि ॥ २९ ॥

पीयूषपारिजाताद्याः के नाभूवन्पयोनिधेः ।
रतैरेव तथाप्येष रत्नाकरपदं गतः ॥ ३० ॥

गुणिनः क इव विशेषो गुणरहिते जननि निरणायि ।
येन विहाय गुणाश्रयमगुणे गाढानुरागासि ॥ ३१ ॥

हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान् ।
अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विरज्यसि ॥ ३२ ।।

मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे
मधूलीपालीभिर्मधुप सहकारे विहरसि ।
वसन्ते वासन्तीमधु मधुरमनासि बहुशो
दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ३३ ॥

मंधूलीमन्विप्यन्मलयपचनान्दोलितदले
मुधा मुग्धः कुन्दस्तबकनिकुरम्बे विचरसि ।
ततः कान्तादन्तच्छदनवसुधासारमधुरे
बधान प्रेमाणं मधुकर नवाम्भोजमधुनि ॥ ३४ ॥