पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं
प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति ॥१०॥

यस्याग्निः कोपपुञ्ज्जे वसति खुरपुटे वाजिनां गन्धवाहो
लक्ष्मीः सलेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा ।
रूक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः
कस्तं श्रीभावसिंहं प्रबलमखभुजामाश्रयं नाश्रयेत ॥ ११ ॥

रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्छिश्रिये
इयाङ्के कमलां निधाय विदधौ निदां हरिर्नीरघौ ।
यस्मिन्दित्सति भूरिदातरि नृणां भासस्थले दुर्लिपी-
ब्रीडानम्रशिराः कमण्डलुजलं जग्राह मार्ष्टुं विधिः ॥ १२ ॥

पादे करणमर्पयन्ति करयोमञ्जरीमातन्वते
काञ्चीदाम च कुर्वते कुचतटे हारानितम्धेषु च ।
नेपथ्यग्रहणे बताग्रजनुषामेणीशो भूरिशो
यस्मिन्दानगुरौ महीसुरतरौ विश्वंभरां बिभ्रति ।। १३ ॥

फूत्कारेण कुमूर्च्छितस्य कटुभिः कीटान्तराणां रवै-
र्बालानां रुदितारवैरपि च ये निन्युर्विनिद्रा निशाः ।
यसिन्दातरि यापयन्ति त इमे हेषास्वनैहितै-
र्वामानां करकङ्कणध्वनिभिरप्युज्जागरा यामिनीः ॥ १४ ॥

यस्मिन्दित्सति दातरि द्विजनुषो दर्भाङ्कुराकर्षण-
क्रूरैः पाणितलैर्वधूस्तनतटे बध्नन्ति मुक्तालजः ।
शीतोष्णश्रमकर्कशैरतिकृशैरङ्गैः प्रियालिङ्गितैः
कान्ता रुक्मपरिच्छदाः शशिनिभाः शय्याः समध्यासते॥१५॥

ऐश्वर्यं नहुषस्य विष्णुविषयश्रद्धाम्बरीषस्य सा
पाण्डित्यं धनुषश्च पाण्डुजनुषो गाम्भीर्यमम्मोनिधेः
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा
तस्य श्रीयुतभावसिंहनृपतेः साम्यं समुन्मीलतु ॥ १६॥