पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। हे नृप, तब इमौ मातापितरौ तथा अन्यान् यदूंश्च गोपांश्च आदितेयान् संविद्धि अवेहि । स्खं आत्मानं कालनेमि तन्नामकमसुरेश्वरं संविद्धि । युधां युद्धानां प्रस्थं प्रति- ते इति प्रस्थः । आश्रितानां नन्दनम् । खसखान् प्रलम्बादींश्च दैत्यान् सं विद्धि ॥---आ- दितेयानिति । 'कृदिकारादक्तिनः' । 'सर्वतोऽचिन्नादित्येके' इति डीषन्तात् 'स्त्रीभ्यो टुक् । मातापितराविति । 'आनऋतो द्वन्द्वे' इत्यानपूर्वपदस्य । प्रस्थमिति । 'आतश्चो- पसर्गे' इति कः॥ कः कालनेमेरितरो हि कण्ठेकालाशिभागी निपुण: समित्याम् । मित्रेषु साधुः प्रियमांस मे त्वां संपश्यतो मुञ्चति हा न चेतः॥३१॥ कालनेमेरितरः को ह्येवंविधः, काण्ठेकालागिभागी शिवपादर्भजनशीलः । समित्यां युधि निपुणः । मित्रेषु साधुश्च स कालनेमिः । विषीदामि । त्वां संपश्यतः मे चेतो न मु- ञ्चति । प्रियमां अहं प्रियो अस्य॥-मित्रेषु समित्यामिति । 'साधुनिपुणाभ्यामर्चायां सप्त- न्यप्रतेः' इति सप्तमी । तत्त्वकथने न भवति । कण्ठेकालेति । 'सप्तमीविशेषणे बहुब्रीहौ' इति सप्तम्यन्तस्य पूर्वनिपातः । 'अमूर्धमस्तकात्स्वानादकामे' इति सप्तम्या अलुक् । कण्ठेकालस्याङ्गि भजते सेवत इति काण्ठेकालाजिभागी । 'संपृचानुरुधा-' इति भजधा- तोर्धिनुणि 'चजोः कु धिण्ण्यतोः' इति कुत्वम् । प्रियमामिति । 'त्वमावेकवचने' इति समास एकार्थस्यास्मदो मपर्यन्तस्य मादेशः ।। वित्ताश्चतुर्विशतिरनिहस्ता यस्याशरेन्द्रः स हि चैद्य एषः । स विप्रचित्तिः शृणु मागधोऽसौ यः संहितोऽभूजरया गुरुस्ते ॥३२॥ यस्य चतुर्विशतिरभिहस्ता वित्ताः ख्याताः । स आशरेन्द्रो वैष वैद्यश्चेदिराजः शिशुपालः त्वं शृणु । स प्रसिद्धो विप्रचित्तोऽसुरस्ते गुरुरसौ मागधो मगधराजो जरा- संधः । यो जरया संहितोऽभूत् ॥-अधिहस्ता इति । 'अधिकरणैतावत्त्वे च' इति द्वन्द्वे कृत्वाभावः । मागध इति । 'यज्मगधकलिङ्गसूरमसादण्' इत्यपत्येऽण् 'तस्य राजन्य- पत्यवत्' । रावणो हि चतुष्पात् । उक्तं च रामायणे--- रावणो विंशतिभुजश्चतुष्पान्मा- नमन्दिरः' इति॥ इन्द्राबृहस्पत्युपक्लप्तमत्रा उत्साहिनोऽग्नीवरुणौ तथान्ये । सुरा भवन्तं बत हन्तुकामाः प्रबोधयांचारधोक्षजं तम् ॥ ३३ ॥ अग्नीवरुणौ तथा अन्ये सुराश्च भवन्तं हन्तुकामाः तमधोक्षज प्रबोधयांचक्रुः । बत खेदे । इन्द्राबृहस्पत्युपक्लप्तमन्त्राः । मन्त्रो गुप्तिबादः । उत्साहिनः ॥–प्रबोधयां- चक्रुरिति । 'बुधयुधनशजनेझुडुत्नुभ्यो पेः' इति परस्मैपदम् । 'आम्प्रलयवत्कृञोऽनु- प्रयोगस्य' इति कृयोऽपि परस्मैपदम् । इन्द्राबृहस्पती इति । 'देवताद्वन्द्वे च' इत्यानड् । १. 'भञ्जन' इत्यादर्शपाठः, २. 'तस्य राजनीत्येव' इति काशिकावृत्तिः,