पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । अग्नीवरुणाविति । 'ईदग्नेः सोमवरुणयोः' इतीकारः । हन्तुकामा इति । 'हुंकाममन- सोरपि' इति लोपः॥ स उत्पियो दैत्ययशोमृतानामुदेजय: सर्वनिलिम्पभीतेः । गोविन्द आधेरसतां ददोऽसौ हन्ताष्टमस्ते वसुदेवसूनुः ।। ३४ ॥ सोऽसौ गोविन्दो अष्टमो वसुदेवसूनुस्ते हन्ता । दैलयशोमृतानामुत्पिनः । सर्वनिलिम्प- भीतेरुदेजयः कम्पयिता । असतामाधेदः --उत्पिब इति । 'पाघ्राध्माधेश. शः' इति शः । उदेजय इति । 'एज़ कम्पने"। 'अनुएसल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च' इति श· । निलिम्पति । 'नौ लिम्पेरिति वक्तव्यम्' इति शः । गो- विन्द इति । 'गवादिषु विन्देः संज्ञायाम्' इति श· । दद इति । 'ददातिदधात्योर्विभाषा' इति शः॥ प्रयुङ्व काल्यान्फलिनानुपायान्प्रियाणि मित्राणि च दर्शयस्व । संक्ष्णुष्व बुद्धिं शृणु भोक्ष्यसे त्वं नैवान्यथा राज्यसुखं चिराय ॥३५|| काल्यान् प्राप्तकालान्' फलिनान्फलेन निश्चितान् उपायान् प्रयुड्न । प्रियाणि मि- त्राणि च दर्शयस्व च तेषामात्मकर्मदर्शने अनुकूलो भव । चुद्धि संक्ष्णुघ्न निशितां कुरु । इदं शृणु । अन्यथा मदुताकरणे त्वं राज्यसुखं चिराय नैव भोक्ष्यसे नानुभवि- ध्यसि ।।-प्रयुड्क्वेति । 'प्रोपाभ्यां युजेरयज्ञपात्रेषु' । 'स्वराद्यन्तोपसृष्टादिति वक्तव्यम्' इति तड् । संक्ष्णुष्वेति । 'समः क्ष्णुवः' इति तड् । भोक्ष्यस इति । 'भुजोऽनवने' इति तङ् । दर्शयखेति । गेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इति तङ् । 'हको:-' इत्यत्र 'अभिवादिदृशोरात्मनेपद उपसंख्यानम्' इति कर्तुळ कर्मसंज्ञायां द्वितीया । काल्यानिति 'तदस्य प्राप्तम्' इत्यधिकारे 'कालाद्यत्' इति यत् । फलितानिति 'फलबहान्यामिनच्' इति मत्वर्थीय इनच्] द्यावाक्षमे संचरतः सदा मे दिवस्पृथिव्योरधिपोऽसि बुद्ध्याम् । न भीषये नापि च गर्धये त्वां शक्त्याचलं नाप्यपपालयेऽहम् ॥३६॥ त्वं मे बुद्ध्यां असि वर्तसे । धावाक्षमे लोकेषु साकल्येन संचरतः । दिवस्पृथिव्योर- धिपः । अहं त्वां न भीषये, नापि च गर्धये व्यामोहये। नापि अपपालये (अपलापये)न्य- करोमि। शक्त्या ज्वलं ज्वलन्तम् 1-~-भीषये इति । 'भीम्बोर्हेतुभये' इति तड् । गर्धये इति । 'गृधिवक्ष्योः प्रलम्भने' इति तद् । अपपालये (अपलापये) इति । 'लियः संमानन- शालीनीकरणयोश्च' इति तड्। 'विभाषा लीयतेः' इत्यात्वे पुक् । ज्वलमिति । 'ज्वलिति- कसन्तेभ्यो णः' इति णाभावे पचाद्यच् । द्यावाक्षमे इति । 'दिवो द्यावा' इति द्यावादेशः । दिवस्पृथिव्योरिति । 'दिवसश्च पृथिव्याम्' इति दिवसादेशः । सस्य रुत्वादिविकाराभा- वोऽकारोच्चारणात् ॥ १. 'शक्लाज्वलं नाप्यपलापयेऽहम् इति न्याय्यः पाठः,