पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छः । औष्ट्रादिषु 'गोत्रोक्षोष्ट्रोरभ्रराजराजन्यरा- जपुत्रवत्समनुष्याजादु । राजके 'नस्तद्धिते' इति टिलोपः । आद्यमिति । 'दिगा- दिभ्यो यत्' इति यत् । काण्डीरेति । 'काण्डाण्डादीरनीरचौं' इतीरन्मत्वर्थीयः॥ तं पौरुषीः षट् पुरुषास्तथान्या: क्रान्त्वोपयान्तं परिखा मुनीन्द्रम् । दिदृक्षमाणं नृपतिं विविद्वान्द्वास्थोऽन्वजिज्ञासवेक्ष्य दूरात् ॥ २७ ॥ द्वास्थः तं मुनीन्द्रं दूरादवेक्ष्य अन्यजिज्ञासत् ज्ञातुमैच्छत् । नृपति दिडक्षमाणं वि- विद्वान् ज्ञातवान् । पौरुषीः पुरुषप्रमाणाः तथा अन्याश्च परिखाः कान्वा अतिक्रम्य उ- प्रयान्तं समीपं आगच्छन्तम् ॥–दिदृक्षमाणमिति । 'ज्ञाश्रुस्मृशां सनः' इत्यात्मनेपदम् । अन्वजिज्ञासदिति । 'नानोईः' इति तनुभावः । पौरुषीरिति । 'पुरुषहस्तिभ्यामण्व' । षट्- पुरुषा इति । प्रमाणे विहितस्य द्वयसजादेशस्य 'प्रमाणे लो द्विगोनित्यम्' इति लुकि 'पु- रुषात्प्रमाणेऽन्यतरस्याम्' इति डीबभावे टाप् । षट्पुरुषीः' इति वा पाठः । विविद्वानिति विदेानार्थात्वसुः॥ कंसं कृतातिथ्यविधि सजन्यं शुश्रूषमाणं मुनिरित्यवादीत् । न शीयते मे त्वयि सौहृदयं तत्प्रत्यशुश्रूषिषमीप्सितं ते ॥ २८ ॥ स मुनिः कंसं इति अवादीत् । 'मे त्वयि सौहृदयं न शीयते नावगच्छति । तत् ते अभीप्सितं प्रत्यशुश्रूषिषम् प्रतिश्रोतुमैच्छम् । कृतातिथ्यविधिम् । जन्यं जनस्य जल्पम् । शुश्रूषमाणं श्रोतुमिच्छन्तम् ॥--प्रत्यशुश्रूषिषमिति प्रत्याभ्यां श्रुवः' इति तड्डभावाशीयते इति । 'शदेः शितः' इति तड् । 'पाध्रा-' इति शीयादेशः । आतिथ्येति । 'अतिथेय:'ता- दर्थ्ये । जन्यमिति । 'मतजनहलात्करणजल्पकर्षेषु' इति जल्पे यत् । सौहृद्ध्यमिति । ब्राह्मणादित्वात् व्यञ् । हृदादेशाभावपक्षः ॥ ऋजुत्वदोषाम्रियसे पुरा त्वं जानासि न स्वं विषमस्थमेव । वसुःपतिः स्थाण्डिलसंमितस्ते भूकाश्यपश्चक्रभृत: पितायम् ॥२९॥ ऋजुत्वदोषात् आर्जवमेव दोषस्तस्माद्धेतोः म्रियसे आशु प्राणांस्त्यक्ष्यसि । ख. मात्मानमेवं विषमस्थं कृच्छ्रे वर्तमानं न जानासि । ते अयं वसुःपतिर्वसुदेवश्चक्रभृतः पिता भूकाश्यपः । यो यो भगवतः पिता दशरथादिः स स भूकाश्यपः स्थाण्डिलसंमितः व्रतवशात् स्थण्डिले शायी स्थाण्डिलः ॥-नियस इति । 'म्रियते डिडोश्च' इति तड् । विषमस्थमिति । 'सुपि स्थः' इति कः । 'स्थे च भाषायाम्' इत्यलुनिषेधः । खसुःपति- रिति । "विभाषा खसृपत्योः' इति षष्टया अलुक् । स्थाण्डिलेति । 'स्थण्डिलाच्छयि- तरि व्रते॥ संविद्धि मातापितरौ तवेमौ यदूश्च गोपांश्च नृपादितेयान् । प्रस्थं युधां नन्दनमाश्रितानां खं कालनेमि स्वसखांश्च दैत्यान् ॥३०॥