पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ काव्यमाला। इति व्याजिघ्रतेः कः । व्याघ्रः । 'द्वैपवैयाघ्राद' । कुशाग्रीयेति । 'कुशाग्राच्छः ॥ संचरमाण इति । 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । प्राढेतनेति । 'घकालतनेषु कालनान्नः' इति वा सप्तम्या अलुक् । विलेशयेति । 'अधिकरणे शेतेः' इत्यच् । 'शयवासवासिध्वकालात्' इति वा अलुक् । गजतेति । 'गजाच वक्तव्यम्' इति तल् । तलन्तं नित्यं स्त्री । ददृश्वानिति । 'दृशेश्चेति वक्तव्यम्' इति क्वसोर्वा इट् ॥ भ्राष्ट्रानपूपान्पललं च शूल्यं क्षैरेयमौदश्चितमनतान्धः । या दाधिकायं च जनेन पूर्णा रराज कौमारवधूत्ककान्ता ! २४ ।। या पुरी जनेन पूर्णा रराज । भ्रष्टानपूपान् क्षैरेयं क्षीरेण संस्कृतं औदश्वितं उदश्विति संस्कृतं दाधिकाद्यं दधिसंस्कृतं दाधिकं तदादि च अन्धः अन्नं च अश्नता कौमारव- धूत्ककान्ता अपूर्वपतीः कुमारीरुपपन्नाः कौमाराः ते च ते वधूत्काश्च कान्ता यत्र । अथवा अपूर्वपतयः पतीनुपपन्नाः कुमार्यः कौमार्यः ताश्च ता वध्वश्च तासु उन्मनसः कान्ता यत्र ॥-कौमारेति ! 'कौमारापूर्ववचने' इत्यण् । शल्यमिति । 'शूलोखाद्यत्' इति यत् । दाधिकेति । 'दनष्ठक्' । औदश्वितमिति । 'उदश्वितोऽन्यतरस्याम्' इति ठगणौ।

रेयमिति । 'क्षीराड्ड' ॥

रुच्यं फलं संग्रददे ह किंचिद्दास्या मिथः कश्चन कौलटेरः । शारावमन्नं दद्देऽपरस्यै यत्रापरः स्मेरमुखस्तदानीम् ॥ २५ ॥ यत्र कश्चन कौलटेरः कुलटाया अपत्वं रुच्यं शोभनं किंचित् फलं मिथो रहसि दास्या संप्रददे दास्यै दत्तवान् । अपरः कौलटेरः अपरस्यै दास्यै शारावं शरावे उद्धृतम् अन्नं स्मेरमुखःसन् दददे दत्तवान् ।।दास्यति । 'अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम्' । संप्रददे इति । 'दाणश्च सा चेचतुर्थ्य' इति तड् । सेति तृतीया । कौलटेर इति । कुलटाशब्दात् शीलहीनस्त्रीवचनात् 'क्षुद्राभ्यो वा' इति डूकू । 'कौलटेयः' इति पाठे 'कुलटाया वा' इति ढक् । शारावमिति । तत्रोद्धृतममत्रेभ्यः' इत्यण् ।। बाघक(ग)णं यत्र सराजपुत्रकोर्जस्विराजन्यकराजकाढ्यम् । प्राज्यौष्ट्रकौरभ्रकबाडवाश्वीयोसिक्तकाण्डीरककौन्तिकाद्यम् ॥ २६ ॥ यत्र मधुरायां बाह्याङ्क(ग)णं बहिर्देशमवमङ्क(झ)णं एवंविधमभवत् । सराजपुत्रकोर्ज- खिराजन्यकराजकाढ्यं राजपुत्रसमूहसहितेन ऊर्जखिना बलवता राजन्यकेन राजन्य- समूहेन राजकेन राजसमूहेन च समृद्धम् । प्राज्येति । औष्ट्रक उष्ट्रसमूहः । औरनं उरभ्र- समूहः । उरभ्रो मेषः । चाडवं बडवासमूहः । अश्वीयमश्वसमूहः । काण्डीरकाः काण्डसंज्ञा- युधयुक्ताः । कौन्तिकाः कुन्तायुधाः । प्राज्याः प्रभूता एते यत्र ॥-बाह्येति । 'बहिदै- वपञ्चजनेभ्यश्चेति वक्तव्यम्' इति भवार्थे व्यः । बहिषष्टिलोपश्च । 'अव्ययानां भमाने टिलोपः' इत्यस्यानित्यत्वज्ञापकमेतत् । बाडवेति । 'खण्डिकादिभ्यश्च' इत्यत् । अश्वीयेति ।