पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । ऋषीन् आनचं । गुगसंपदा खं पर्यष्करोत् अलंकृतबांश्च । गवेन्द्र गवामिन्द्रे कृष्णे मति विदधे च । कीर्तिभरेण धुलोकमपि स्कुन्वन् आवृण्वन् ॥-स्कुन्वन्निति । 'स्कुञ् आव- रणे'। सन्मुस्तुन्मुस्कन्भुस्कुन्भुस्कुरुभ्यः नुश्च' इति क्षुः । गवेन्द्र इति । इन्द्र च नित्यम् इत्यवडादेशः। महऋषीन् इति । 'आन्महत:--'इत्यात्वे 'ऋत्यकः इति प्रकृतिवद्भावो हस्त्रश्च । धुलोकमिति । 'दिव उत्' इति वस्य उकारः । एष तामिति । एतत्तदोः सुलोपोऽकोरनब्समासे हलि' इति सुलोपः। सैष इति । 'सोऽचि-' इति सुलोपः । पर्यष्करोदिति । 'मुट कात्पूर्वः' इत्यधिकृत्य ‘संपर्युपेभ्यः करोती भूषणे' 'अडभ्यास- व्यवायेऽपि' इति सुट् । 'सिवादीनाम्-' इति वा पत्रम्(१) । अन्वरुध्यतेति । 'अनो रुष कामे' इति रुधेर्दिवादिलमात्मनेपदित्वं च ॥ पैतृष्वस्रीयाश्च मातृध्वसेयाः कुल्याः स्वस्रीयाश्च काल्याणिनेयाः । ये भ्रातृव्या ये श्वशुर्याः कुलीना: कौरव्या ये चापि माहाकुलीना:६७ ये वा गर्गा ये च दासेरदेश्यास्ताक्षण्याद्या चे पुनर्दीष्कुलेयाः। सर्वाञ्छौरिवृत्तसर्वागमस्ताना दुच्चैदैष्टिकोऽनुप्रधानम् ॥ ६८॥ द्वयोरन्धयः । शौरिस्तान् सर्वान् अनुप्रधानं प्रधानानुपूप्या उच्चैः आर्चीत्पूजितवान् । ये कुल्याः कुलापत्यानि । पैतृष्वस्रीयाः पितुः स्वसुरपत्यानि । कुलशब्देन भेदात् कुल्य उच्यते । मातृध्वसेथा मातृष्वसुरपत्यानि । स्वस्रीयाश्च खसुरपत्यानि च । काल्याणि- नेयाः कल्याणीनामपत्यानि च । भ्रातृव्या भ्रातॄणामपत्यानि च । ये च कुलीनाः कुला- पत्यानि च श्वशुर्याः श्वशुरापत्यानि । ये च माहाकुलीनाः महाकुलापत्यानि च कौरव्याः ये वा गर्गाः कुत्सितानि गर्गापत्यानि । ये च दासेरदेश्याः दासीपुत्रप्रायाः चे युनः दौऽकुलेयाः दुष्कुलापत्यानि । ताक्षण्याद्याः तक्षापत्यप्रभृतयः । तान् । वृत्तसर्वांगमः । वृत्तमधीतम् । दैष्टिको दिष्टमस्तीति मत्या युक्तः ।।-पैतृष्वनीया इति । 'पितृष्वसुइछ। इत्यपत्यार्थे छण् प्रत्ययः ।मातृवसेयाः। 'मातृष्वसुश्च' इति । 'ढकि लोपः । इति लोपोऽयम् । कुल्या इति । 'अपूर्वपदादन्यतरस्यां यड्ढकौ' इति यत् । खत्रीया इति 'श्वसुश्छः' । काल्याणिनेया इति । 'कल्याण्यादीनामिनङ्' इति ढक् ! इनड्डादेशश्च । प्रातृव्या इति । 'भ्रातुर्व्यच । श्वशुर्या इति । 'राजश्वशुराद्यत्' कुलीना इति। 'कुलात्खः' । कौरव्येति । 'कुर्वादिभ्यो ण्यः' इति यः। ('कुरुनादिभ्यो ण्यः')इति ग्यप्रत्ययोऽन्योऽपि तद्राजसंज्ञोऽस्ति। तस्य वहुषु लुक् । अयं तु श्रूयत एव । माहाकुलीना इति । 'महाकुलादखजौ' । गर्गा इति । गोत्रास्त्रियाः कुत्सने ण च'। गोत्राभिधायिनः शब्दाण्णढको । दासेरेति। क्षुद्रास्यो वा' इति ट्रक् । ताक्षण्येति । सेनान्तलक्षणकारिभ्यश्च' इति ण्यः। कारिणः कारवः । दौष्कुलेया इति । 'दुष्कुलाढक्' । दृतेति । 'णेरध्ययने वृत्तम् । दैष्टिकेति । 'अस्तिनास्ति दिष्टं मतिः' । अनुप्रधानमिति आनुपूर्थेऽव्ययीभावः ॥ पुषाण धर्म न तपांसि तप्था मा वत्स चेतश्च विधेहि कृष्णे । य ईगस्मै नमते स्वयं द्रागभीष्टमुक्त्वैवमहास्त गर्गः ॥ ६९॥