पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। गर्ग एवमुक्त्वा अहास्त गतवान्-'हे वत्स, त्वं धर्म पुषाण वर्धय । तपांसि न । [मा] तप्याः आर्जय । अपि तु आज एव । चेतः च कृष्णे विधेहि । यः पुरुषः ईग्भवति अस्सै अभीष्टं द्राक् वयं नमते ॥-पुषाणेति । 'पुष्ट पुष्टौ' । 'झ्यादिभ्यः श्ना' हलःश्नः शानज्झौ' इति थाप्रत्ययस्य शानच् । तथा इति । 'तप संतापे' । 'तपस्तपःकर्मकस्यैव' इति कर्तुः कर्मवद्भावः । नमते इति । 'कर्मवत्कर्मणा तुल्य क्रियः' इति कर्मवद्भावे 'न दुहस्नुनमा यक्विणौ' इति यगभावः ।। अथ चेदयश्च कुरवश्व भृशमपचिता विचक्रिर आत्तकुतुकम् । अपरे च ततो निरगुळकुर्वत च शब्दमुच्चकैः ।। ७० ।। अथ चेदयः चेदिराजाः, कुरवः कुरुकुलजातनृपाः, तथा अपरे च आत्तकुतुकं विच- किरे विविधमचेष्टन्त। भृशं अपचिताः पूजिताः ते ततो निरगुश्च। उच्चकैः शब्द व्यकुर्वत विविधमकुर्वत च ॥–न्यकुर्वतेति ।] 'वेः शब्दकर्मणः' इति तड् । विचक्रिरे इति । 'अकर्मकाच्च' इति तड् । चेदय इति । 'वृद्धकोसलाजादायड्' इति 'जनपदशब्दाक्ष- त्रियादग्' इत्यमोऽपवाद इदन्तत्वात् व्यङ्प्रत्यये ते तद्राजाः' इति तद्राजसंज्ञायाम् 'त- द्राजस्य बहुषु तेनैवास्त्रियाम्' इति लुक् । कुरव इति । 'कुरुनादिभ्यो ण्वः' इति ण्यप्रत्य- योऽपयार्थे । बहुषु लुक् । 'क्षत्रियसमानशब्दान्जनपदात्तस्य राजन्यपत्यवत्' । ब्रह्मण्यबुद्धिरथ विश्वजनीनशीलः शौवस्तिकेषु मतिमादधदातिथेयः। उच्चस्तर िनिजधामतया स शौरिस्तत्पारिषद्यचरितः सुखमध्युवास७१ अथ स शौरिः तया सह तत् निजधाम स्वगृहं सुखं अध्युवास । ब्रह्मण्यबुद्धिः ब्राह्म- णेभ्यो हिता बुद्धिर्यस्य । विश्वजनीनं विश्वजनहितं शीलं यस्य । शौवस्तिकेषु भवेषु का- र्येषु मतिमादधत् आतिथेयः अतिथिषु साधुः । पारिषद्यचरितः परिषदि साधु चरितं यस्य । उच्चैस्तरद्धि उच्चैस्तरा ऋद्धिर्यत्र ॥--ब्रह्मण्येति । 'खलयबमाषतिलवृषब्रह्मणश्च' इति हितार्थे यत् । विश्वजनीनेति । 'आत्मन्विश्वजनभोगोत्तरपदात् खः । शौवस्ति- केषु । श्वसस्तुट् च' इति वा ठञ् तुडागमश्च । अतिथेय इति। 'पथ्यतिथिवसतिस्वपतेर्ड' 'तत्र साधुः' इत्यर्थे । पारिषवेति । परिषदो ण्यः' । उच्चैस्तरेति 'अद्रव्यप्रकर्षे' इत्युक्त्या अप्रत्ययाभावः। इति वासुदेवकृतौ वासुदेव विजयकाव्ये पदचन्द्रिकाख्यया व्याख्यया समेतः प्रथमः सर्गः। द्वितीयः सर्गः। कृष्णाशिभक्तरुपचस्करेऽथो भिक्षंश्च काषायपटानभक्त । कर्तव्यमाने पटिमानमाटीत्सा देवकी लाक्षिकपाणिपादा ॥१॥ १. अस्मिन्वृत्ते छन्दो न ज्ञायते. टीकायामपि मूलतोऽन्यूनानतिरिक्तानि प- दानि दृश्यन्ते.