पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गोत्रापत्यम् । बादारकः बदरिकानु(राण्यु)ञ्छन् । व्यासश्च कानीनमुनिः । कन्याया अ- पत्यं ऋषिः गरीयान् गुरुतरः । माण्डूकिः मण्डूकापत्यम् । एषां तनयाश्च पौत्राः पु- त्राणां पुत्राश्च अनाष्टमिकाः। आष्टमिकः अष्टम्यां अधीतवान् ॥-गार्गीया इति । गा- र्ग्यायणशब्दात् 'श्रद्धाच्छः' इति शैषिके छप्रत्यये विवक्षिते 'फक्फिञोरन्यतरस्याम्' इति युवप्रत्ययस्य फको लुक् । 'वृद्धिर्यस्याचामादिस्तदृद्धम्' इति वृद्धसंज्ञा । 'वृद्धाच्छः' शै- षिकः । यूनश्च कुत्सायां [ गोत्रसंज्ञेति वाच्यम् ] इति युवसंज्ञा । आजीगर्तिरिति 'बाह्वा- दिभ्यश्च' इतीञ् । दाक्षायणः । 'वृद्धस्य च पूजायाम्' इति वा युवसंज्ञायाम् 'यमिजोश्च' इति यूनि फक् । वैश्वामित्रेति । 'मित्रे चषौ' इति पूर्वपदस्य दीर्घे विश्वामित्रः । तस्मात् ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण् । आत्रेयेति । 'इतश्चानिञः' इति ढक्। कौषीतकेयेति । "विकर्णकुषीतकात्काश्यपे' इति ढक् । मार्कण्डेय इति । 'शुभ्रादिभ्यश्च' इति ढक् । 'ढे लोपोऽकद्र्वाः ' इति उकारलोपः । मैत्रेयेति । 'गृष्ट्यादिभ्यश्च' इति ढञ् । 'केकयमित्रयुप्र- लयानां यादेरियः' । नाडायन इति । 'नडादिभ्यः फक्' गोत्रापत्ये । व्यास इति । 'असु क्षेपणे'। व्याडावुपसर्गौ । पत्राद्यच् । वि वेदान् विभज्य आ समन्तात् शिष्येषु अस्यति इति । अथवा अस्मादेव धातोर्विपूर्वात् करणे घञ् । कानीनेति । 'कन्यायाः कनीन च' इत्यण् । कनीनादेशश्च । माण्डूकिरिति । 'ढक्च मण्डूकात्' इति ढक् । पौत्रा इति । 'अनुष्यानन्तर्ये बिदादिभ्योऽञ्' इति अस्य अनृषित्वादनन्तरापत्ये पुत्रशब्दादञ् । वादरिक इति 'उञ्छति' इति ठक् । अनाष्टमिका इति 'अभ्यायिन्यदेशकालात्' इति ठक् ॥ द्वैमातुरादिसुरसंघतनोरसोदुर्दैतेयदुर्विलसितानि गवेश्वरस्य । चेतो हरेविदधती पदयोर्गुणैः स्वैः पत्युमनोऽहरदथो अतुलैर्वधूः सा ६५ अथो सा वधूः स्वैर्गुणैः पत्युः मनः अहरत् । अतुलैः । चेतः हरेः पदयोः विदधती। द्वैमातुरादिसुरसंघतनोः । द्वैमातुरो गणपतिः । दैतेयदुर्विलसितानि असोढुः । गवेश्वरस्य गवामीश्वरस्य ॥-द्वैमातुरेति। द्वयोर्मात्रोरपत्यमित्यर्थे मातुरुत्संख्यासंभद्रपूर्वायाः' इत्यण् । उत्वं च । दैतेयेति । 'कृदिकारादक्तिनः' इति वा ङीषि 'स्त्रीभ्यो ढक्' इति ढक् । तनो- रिति। 'ङसिङसोश्च' इति पूर्वरूपत्वम् । असोङुरिति । 'ऋत उत्' इति द्वयोरेक उकारो र- परः । 'रात्सस्य' इति सलोपः । पत्युरिति । 'ख्यत्यात्परस्य' इति ङसोऽकारस्य उकारः । मनोऽहरदिति । 'ससजुषो रु.' 'अतो रोरप्लुतादप्लुते' इति रोरुकारः । चेतो हरेरिति । 'ह- शि च' इति रोरुकारः। गवेश्वरस्पेति । 'अवङ् स्फोटायनस्य' इति गोरवङादेशः। 'ङिच्च' इत्यन्तस्य । अथो अतुलैरिति । 'ओत्' इति प्रगृह्यसंह थाम् 'तप्रगृह्या अचि' इति प्रकृतिभावः ॥ आनर्च यो महऋषीन्गुणसंपदा खं पर्यष्करोच विधे च मतिं गवेन्द्रे । स्कुन्वन्द्युलोकमपि कीर्तिभरेण सैष तामन्वरुध्यत पथं सदृशीं न शौरिः६६ स एष शौरिः सदृशीं तां कथं न अन्वरुध्यत अनुवर्तते स्म । यः महऋषीन महत