पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । शूद्राः शूद्रजात्युत्पन्नाः । रम्भोर्चः रम्भोपमा ऊरबो यासाम् । तरुण्यः यौवनवत्यश्च । ---आचार्याण्य इति । 'इन्द्रवरुण-'इत्यादिना डीषानुकौ । मातुलान्य इति । 'पितृव्यमातुल- मातामहपितामहाः' इति मातृशब्दात् भ्रातरि डुलच् निपात्यते । 'उपाध्यायमातुलाभ्यां वा' इति पक्षे डीषानुको । दाक्ष्य इति । 'अत इञ्' अपत्यार्थे, 'इतो मनुष्यजातेः' इति डीए ! गार्गायण्य इति । 'गर्गादिभ्यो यञ्' इति गोत्रे यञ् । 'यञश्च' 'प्राचा ष्फ तद्धितः' इति वा ष्फः । पित्वात् डीष् । ब्रह्मवध्व इति । 'ऊडतः' इत्यूड् । गणक्य इति । 'पुंयो- गादाख्यायाम्' इति डीष् । शुद्रा इति । जातिविवक्षायाम् 'शूद्रा चामहत्पूर्वा' इति टाप् ।। ततो विसृज्याश्वपतादि शौरिर्दैत्यारिपादाब्जविलातृचेताः । गर्ग च गार्ग्य च ननाम दाक्षि गाार्गायणादींश्च मुनींस्त्रिवेदान् ॥२॥ ततः शौरिः आश्वपतादि जनजातं विमृज्य मुनीन्ननाम । अश्वपतीनां समूहः आश्वप- तम् । गर्गे च गार्ग्य च गर्गस्य गोत्रापत्यम् । दाक्षि दक्षस्यापत्यम् । गाार्गायणादीन् । गर्गस्य युवापत्यं गाार्गायणः । त्रिवेदान् त्रीन् वेदान् अधीतवन्तः । दैत्यारीति । विला- तृ विलयनशीलम् ।।-आश्वपतमिति । 'समर्थानां प्रथमाद्वा' इति स्वार्थिकेभ्यः प्राक्तनानां प्रत्ययानां सूत्रेषु प्रथमानिर्दिष्टः शब्दः प्रकृतित्वेनाधिक्रियते । 'प्राग्दीव्यतोऽण्' इत्यप- वादविषयं परिहत्याण् भवतीति परिभाष्यते । संख्याकालाविहाविवक्षितौ । 'तस्य समूहः' इत्यण् । 'अश्वपत्यादिभ्य इत्यण् । पत्युत्तरपदाण्ण्यस्य बाधकम् । दैत्येति । तस्याप- त्यम्' इत्यर्थे “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' । त्रिवेदानिति । 'तदवीते तद्वेद' इत्यण् । तस्य 'द्विगोर्लुगनपत्ये' इति लुक् । गायमिति । तस्यापत्यम्' इत्यधिकृत्य 'गर्गादिभ्यो यन्' इति गोत्रापत्ये यञ्। 'एको गोत्रे' इति गर्गशब्द एव प्रकृतिः । 'अपत्यं पौत्रप्रभृति गोत्रम्' । गार्गायणेति । 'यजिलोश्च' इति युवापत्ये फक् । 'गोत्रा द्यून्यस्त्रियाम्' इति युवप्रत्ययस्य गोत्रप्रत्ययान्तं पदं प्रकृतिनियम्यते । 'जीवति तु वंश्ये युवा' इति चतु- र्थापत्वादेर्युवसंज्ञा । दाक्षिमिति । अपत्यार्थे 'अत इञ्' विलातृ इति । 'लीड् श्लेषणे' । 'विभाषा लीयतेः' इति वा आत्वम् । 'विलेतृ' इति वा पाठः ॥ गार्गीयास्ते साधु गार्गायमाणाश्चाजीगर्तिश्चाथ दाक्षायणाश्च । वैश्वामित्रात्रेयकोषीतकेया मार्कण्डेयः सोऽपि मैत्रेयनामा ।। ६३ ।। नाडायनो बादरिकश्च तस्मै व्यासश्च कानीनमुनिर्गरीयान् । माण्डूकिरेषां तनयाश्च पौत्रा महाशिषोऽनाष्टमिका वितेरुः ॥ ६४ ॥ द्वयोरन्वयः । ते तस्मै साधु महाशिषः विरुदत्तवन्तः । गार्गीयाः गर्गयुवापत्यभूतगा- र्गायणशिष्याः । गर्गस्य कुत्सितयुवापत्यं चापि। आजीगर्तिरजीगर्तस्यापत्यम् । अथेति समुच्चये। [दाक्षायणा इति ।]दाक्षस्य पूजितं गोत्रापत्यं च । वैश्वामित्रात्रेयकौषीतकेयाः। विश्वामित्रस्यापत्यम् । आत्रेयः अत्रेरपत्यम् । कौषीतकेयः कुषीतकस्यापत्यम् । मार्क- ण्डेयः मृकण्डोरपत्यम् । मैत्रेयनामा सोऽपि । मित्रयोरपत्यं मैत्रेयः । नाडायनः नडस्य