पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। नमभिभवः पराजयो वा । तक्ष्णुवन्तीति । 'तनूकरणे तक्षः' इति वा नुः। अनेकार्था धातवः । तुदन्तीति । 'तुदादिभ्यः शः' 'अतो गुणे' इति पररूपत्वम् । रुन्धन्तीति 1 'रुधादिभ्यः श्नम्' । व्यतनोदिति । 'तनादिकृञ्भ्य उः' । धिन्वन्तीति । [हिबि] धिवि] [जिवि]प्रीणनार्थाः । "धिन्विकृण्व्योर च' इति उप्रत्ययः । अकारश्चान्तादेशः। अतो लोपस्य स्थानिवद्भावाद्गुणाभावः । भिन्द्युरिति "भिद्यतेरुस्' 'उस्यपदान्तात्' इति पररूपत्वम् । 'सुषामादिषु च' इति षत्वम् ॥ मित्रैश्चटच्चटदिति त्रुटितोरुहारैः संमर्दतः स निजधाम विवेश रूपम् । केलीसमीकरतखाङ्गिकखट्यमानचर्मावलीपटपटायितपाटिताशम्॥५९॥ स मित्रै. स ह निजधाम विवेश । रूपं प्रशस्तं विवेश । संमर्दतः हेतोः चटच्चट- दिति त्रुटितोरुहारैः । केलीति समीकं युधं(?) खाङ्गिकाः खङ्गायुधा क्रियाविशेषणम् ॥--चटचटदिति । 'नित्यवीप्सयोः' इति द्विवचनम् । 'तस्य परमाम्रेडितम्' । 'नामेडितस्यान्त्यस्य तु वा' इत्यच्छब्दस्य इतेरिकारस्य च पररूपैकान्देशा- भावः । तकारेकारयोः पररूपविकल्पः। पटपटायितेति । पट इत्यस्य 'डाचि बहुलं द्वे भवत इति वक्तव्यम्' इति टिलोपात् पूर्व द्विवचनम् । 'नित्यमानेडिते डाचीति वक्तव्यम्' इति पूर्वान्त्यतकारस्योत्तरादिपकारस्य च पररूपमेकादेशः । निजधामेति । गाहिरुहि- विशां कर्म' [2] इत्यधिकरणस्य कर्मसंज्ञा ॥ स्वस्त्रीजनांश्चात्मरुचा क्षिपन्ती हस्तौ लसन्माङ्गलिकौ दधानाम् । हीणां नवोढां जगतोऽभिनन्द्यां तो पर्यगृह्णन्मुदिताः पुरंध्र्यः ॥ ६०॥ पतिपुत्रवत्यः स्त्रियो मुदिताः तां नवोडां पर्यगृह्णन् । आत्मरुचा स्वस्त्रीजनानपि क्षिप- न्तीम्, लसन्माङ्गलिकौ हस्तौ दधानाम् , लसन्ति माङ्गलिकानि दर्पणादीनि ययोः। ह्रीणा लज्जिताम् । जगतः अभिनन्द्याम् ॥–पर्यगृह्णन्निति । 'झ्यादिभ्यः श्ना' 'नाभ्यस्तयो- रातः' इत्यालोपः । च आत्मेति । 'अकः सवर्णे दीर्घः' इति द्वयोरेकादेशो दीर्घः । 'तु- स्यास्यप्रयत्नं सवर्णम्' । जनानिति । जन अस्। 'प्रथमयोः पूर्वसवर्णः' इति द्वयो. पूर्व- सवर्णदीर्घ एकादेशः। तस्माच्छसो नः पुंसि' इति सकारस्य नकारः । हस्ताविति । 'ना- दिचि' । पूर्वसवर्णदीर्घप्रतिषेधः । पुरंध्र्य इति । पुरं गृहं धरतीति- पूर्वरूपैकादेशः । ऊढेति । वहेर्निष्ठायां संप्रसारणम् । 'संप्रसारणाच्च' इति पूर्वरूपम् । जगतोऽभीति । ‘एडः पदान्तादति' इति पूर्वरूपत्वम् ॥ आचार्याण्यो मातुलान्यश्च दाक्ष्यो गार्गायण्यो ब्रह्मवध्वो गणक्यः । रम्भोर्वश्च क्षत्रियाण्यस्तरुण्यः शूद्र्यः शूद्रा मोमुदामासुरुच्चैः ॥६॥ एताः स्त्रियः उचैः मोमुदामासुः पुनः पुनर्मुमुदिरे। आचार्याण्यः आचार्याणा स्त्रियः। मातुलान्यः मातुलानां स्त्रियः । दाक्ष्यः दक्षस्य स्वपत्यानि । गार्गायण्यः गर्गगोत्रसं- भूताः । गणक्यः गणकानां स्त्रियः । क्षत्रियाण्यः क्षत्रियकुलजाः। शुद्र्यः शूद्राणां भार्याः ।