पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेव विजयम् । संशृण्वतस्तामवृधद्रिं हृदि क्रुवारदक्षिद्वयमाशु रक्तिमा । धर्माम्बु कंसस्य तदासिचत्तरांस्रुतोऽङ्गरागोऽलिपताखिलं वपुः॥४०॥ तदा तां गिरं संशृण्वतः कंसस्य हृदि कुत क्रोधः अवृधत ववृधे । अक्षिद्वयं रक्तिमा रक्तत्वं आशु आरत् प्राप्तः । धर्माम्बु अखिलं वपुः असिचत्तरां अतिशयेन सिक्तमकरोत् । सुतः अङ्गरागः अलिपत लिप्तमकरोत् ॥-असिचत्तरामिति । 'लिपिसिचिह्वश्च्' इत्यङ् । अलिपतेति । 'आत्मनेपदेष्वन्यतरस्याम्' इत्यङ् । अवृघदिति । पुषादिद्युतादिलृदितः परस्मैपदेषु' इत्य । आरदिति । ‘सर्तिशास्त्वर्तिभ्यश्च' इत्यङ् ॥ रजोविलिप्ती तनुमुन्बलक्रीतीं विधास्यन्निजजीवितस्थितिम् । स शङ्खभिन्नीर्नृपतिर्द्विषां तनूः कर्तारमुग्रं करवालमाददे ॥ ४१ ॥ स नृपतिः उग्रं करवलं आददे । रजोविलिप्ती अल्पेन रजसा विलिप्ता तनुं उद्वहन् । निजजीवितस्थितिं बलकीतीं बलेन क्रीतां विधास्यन् । द्विषां तनूः शङ्खभिन्नीः कर्तारम् ।। आददे इति । 'डु दाञे दाने । 'आढो दोऽनास्यविहरणे' इति तट् । बलकीती मिति । 'क्रीतात्करणपूर्वात्' इति ङिष् । रजोविलिप्तीमिति । 'क्तादपाल्पाख्यायाम्' इति ङीप् । शङ्खमिन्निरिति । 'बहुव्रीहेश्चान्तोदात्तात्' इति ङीष् ॥ मनोज्ञगात्री मधुरारुणाधरा शातोदरी चन्द्रमुखी पृथुस्तना । तृपेण दोष्णा सहजा जिघांसुना शीर्षण्यबालेषु हठादगृह्यत ॥ ४२ ॥ शातं कृशम् । चन्द्रमुखीति । 'खाङ्गाचोपसर्जनादसंयोगोपचात्' इति वा ङिष् । मनोज्ञगा- न्नीति । 'अङ्गगात्रकण्ठेभ्योवक्तव्यम्' इति वा ङीष्। शातोदरीति । 'नासिकोदरौष्ठजवादन्त- कर्णशृङ्गाच्च' इति वा ङीष्। मधुरारुणाधरेति । 'न क्रोडादिबह्वचः' इति ङीष् । प्रतिषेधे टाप् । शीर्षण्येति । शरीरावयवाद्यत्' इति शिरश्शब्दाद्यत् । 'ये च तद्धिते' 'वा केशेषु [शि- रसः शीर्षनादेशो वक्तव्यः' इति शीर्षनादेशः । 'ये चाभावकर्मणोः' इति प्रकृतिभावः । दोष्णेति। पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदनासञ्छस्प्रभृतिषु' इति दोषन्नादेशः।। / अनासिका शूर्पणखा कृता न किं रामेण नो वा किमहानि ताटका । खले ब्रुवत्येवमवाङ्मुखी सती तस्मिन्नशेषा जनताथ सारुदत् ।।४३॥ तस्मिन् एवं ब्रुवति अशेषा सा जनता अवाङ्मुखी सती अरुदत् । रामेण शूर्पणखा अनासिका किं न कृता । ताटका नो वा किमहानि इति खले १५-अरुददिति । रुदिर अ- श्रुविमोचने' । 'इरितो वा' इत्यङ् । अनासिकेति । सहनविद्यमानपूर्वाञ्च' इति ङीप्प्रतिषेधः। शूर्पणखेति । 'नखमुखात्संज्ञायाम्' इति ङीप्प्रतिषेधः । अवाङ्मुखीति । 'दिक्पूर्व- पदान्ङीप्' इति ङीप् ॥ १. 'अघानि' इति युक्तम्