पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उपस्थिते पाणिगृहीत्युपप्लवे भयं समाश्वद्धृदि पत्युरुच्चकैः । महान्विमर्शोऽप्युपादि रोषणं ततः स विद्वानिति कंसमाख्यत ॥४४|| पाणिगृहीत्युपप्लवे पत्नीविनाशे उपस्थिते पत्युः हृदि भयं उच्चकैः समाश्वत् ववृधे । महान् विमर्श उदपादि उपपन्नो विततः कंसमिति आख्यत रोषणं विद्वान् ॥-समाश्व- दिति । 'जॄस्तम्भुम्रुचुम्लुचुग्लुचुग्लुञ्चुश्विभ्यश्चः' इति वा अट् । उदपादि 'चिण् ते पदः' इति च्लेश्चिण्णादेशः। पाणिगृहीतीति । पाणिर्गृहीतोऽस्या इति 'पाणिगृहीत्यादीनामर्थविशेषे ङीष्वक्तव्यः'। उत्तिष्टसे कर्मणि किं जुगुप्सिते संदिह्य धर्मे त्वयि तिष्ठते जनः । संक्रीडतां कीर्तिरदूषितैव ते का वा त्वरैषा ह्यवतिष्ठते वशे ॥ ४५ ॥ त्वं जुगुप्सिते निन्दिते कर्मणि किं उत्तिष्ठसे ईहसे । जनः धर्मे संदिह्य त्वयि तिष्ठते निर्णग्रहेतुत्वेनाश्रयति । ते कीर्तिः अदूषितैव संक्रीडताम् । का वा त्वरा एषा । बशे अधीने अवतिष्ठते हि संक्रीडतामिति । 'क्रीडोऽनुसंपरिभ्यश्च' इति तङ् । अवतिष्ठते इति । 'समवप्रविभ्यः स्थः' इति तङ् । तिष्टते इति । 'प्रकाशनस्थेयाख्ययोश्च' इति तङ् । उत्तिष्ठस इति । 'उदोऽनूर्वकर्मणि' 'उद ईहायामिति वक्तव्यम्' इति तङ् ॥ अदीपि कोप: कुत एष नह्यसौ न स्यादशिश्वीत्यधुनास्ति निर्णयः । प्रसोध्यते चेदपि ते जगजितः कलो भवेञ्चिन्तयितुं महीपते ॥ ४६॥ हे महीपते, ते कुतः कस्माद्धेतोः एष कोपः अदीपि दीप्तोऽभूत् । असौ अशिश्वी शिशुना विनाभूता न स्यादिति अधुनापि न हि निर्णयोऽस्ति । प्रसोध्यते चेदपि ते चि- न्तयितुं कलो भवेत् । जगजितः ॥-अदीपीति । 'दीपजनबुधपूरितायियायिभ्योऽन्य- तरस्याम्' इति च्लेस्ते चिण् । [अशिश्वीति ।] 'सख्यशिश्वीति भाषायाम्' इति निपात- नम् । 'हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्' इति सुलोपः । प्रसोध्यत इति । 'षूद्द प्राणिप्रसवे'। 'धात्वादेः षः सः' । निर्णय इति । 'णीञ् प्रापणे' । 'णो नः' 'उपसर्गादसमासे- ऽपि' इति णत्वम् । भवेदिति । 'अतो येयः' । 'लोपो व्योर्वलि इति यलोपः । जगजित इति क्विम् । 'वेरपृक्तस्य' इति वेर्लोपः । महीपते इति । 'एङ्ह्रस्वात्संबुद्धेः' इति हल्लोपः ॥ अस्या वधात्पुण्यमहीरुहो रुषा च्छायां भवानच्छिदुरां स्म मा च्छिदत् । कीर्ति मनस्तापहृतं विमृत्वरी हीच्छेन्न को दुर्यशसामलीमसः ॥ ४७ ॥ भवान् अस्या वधात् कीर्ति मा स्म च्छिदत् छिन्नां कुरु । पुण्यमहीरुहः छायाम् । अच्छिदुरांच्छेदनशीला छिदुरा । मनस्तापहृतं बिसृत्वरीं बिसरणशीलां खतः । अम- लीमसः को दुयशसा. न हीच्छेत् लज्जेत । दुर्यशसा मलीमस इति वा ॥-विसृत्वरी- मिति । 'इण्नशजिसर्तिभ्यः क्वरमप्' इति क्वरपि 'ह्रस्वस्य पिति कृति तुकू' इति तुगा-