पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्यति स्म । बादित्रनिनादमांसला !-अदधदिति । 'धेट् पाने' । “विभाषा धेट्श्व्यो' इति चङ् । 'चुटू' इति चकारस्येत्संज्ञा । निरास्थतेति । असु क्षेपणे'। 'उपसर्गदस्य- त्यूयोर्वा ववनम्' इति तङ्। 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरङ्। 'अस्यते- स्थुक्' । शस्त्रापगोरमिति । द्वितीयायां च' इति णमुल् । 'अपगुरो ण्मुलि' इति वा आत्वम् । 'शस्त्रापगोरम्' इति वा पाठः । रज इति । 'रजकरजनरजस्सूपसंख्यानम् इति रञ्जनलोपः। पद्गाः सलीलं व्यतिजग्मुरुत्सुकाः परस्परं व्यत्यभवंश्च वेगिनः । अन्योन्यमुच्चैर्व्यतिध्वनुः पथि न्यविक्षतान्तःपरमोत्सवो नृणाम् ॥३७ पद्गाः पद्भ्यां गच्छन्तः पदातयः पथि सलीलं व्यतिजग्मुः क्रियाविनिमयेन गतवन्तः। परस्परं व्यतिभवंश्च क्रियाविनिमयेनाभवंश्च । अन्योन्यमुच्चैर्व्यतिदध्वनुः शब्दं चकुश्च । उत्सुकः वेगिनः । परमोत्सवः नृणां अन्तः अन्तःकरणं न्यविक्षत ॥व्यतिजग्मुरिति । 'न गतिहिसार्थेभ्यः' इति तङ्भावः । इतरेतरान्योन्योपपदाच' इति तङ्भावः । व्यत्यभवन्निति । 'परस्परोपपदाचेति वक्तव्यम्' इति तङ्भावः । न्यविक्षतेति । 'ने- विंशः' इति तङ्। पद्गा इति। हलन्त्यपक्षः (सूत्रप्राप्तायाः)। 'न विभक्तौ तुस्माः' इति असः सकारस्येत्संज्ञाया अभावः॥ विस्मापयित्री जनमुग्रसेनजं द्रारंभापयित्री भृशमस्य पञ्चताम् । निश्चापयन्ती निकटे तदा वियत्युच्चैरुदस्थादशरीरिणीति गीः ।।३८॥ तदा वियति वक्ष्यमाणप्रकारा उच्चैः अशरीरिणी गीः निकटे उदस्थात् जनं विस्मा- पयित्री उग्रसेनजं कसं भृशं भापयित्री भीति कर्त्री अस्य पञ्चतां निश्चापयन्ती निश्चितां कुर्वती ।।--'चिञ् चयने' । 'विस्फुरोणौ इति वा आत्वम् । भापयित्रीति । त्रिभी भये । 'आदिर्बिटुडवः' इति ञेरित्संज्ञा । 'बिभेतेर्हेतुभये' इति वा आत्वम् । विस्मापयित्रीति । 'नित्यं स्मयतेः' इत्यात्वम् । द्राप्सीः स्म मा शीर्ष्णि हि कंस तेऽर्पितः स्रष्ट्रान्तकस्त्वाममतिविजेष्टमा । अस्या भवानीसद्दशोऽष्टमः सुतो विक्रेष्यते ते स्वबलेन जीवितम् ॥३९॥ हे कंस, त्वं मा द्राप्सीः मा हृषः । स्रष्ट्रा ईश्वरेण अन्तकः ते शीर्ष्णि मूर्धनि अर्पितः हि एव अमतिः अज्ञानं त्वां भा विजेष्ट परिभूत् । अस्याः अष्टमः सुतः ते जीवितं खबलेन विशेष्यते विक्रीतं करिष्यति । भवानीसदृशः पार्वतीतुल्यायाः ॥-विक्रेष्यते इति । 'परिव्यवेभ्यः क्रियः' इति तङ् । भवानीति : 'इन्द्रवरुणभवशवरुद्रमृडहिमारण्य- यवयवनमातुलाचार्याणामानुक्' इति ङिषानुकौ । स्रष्ट्रेति । सृजिशोझल्यमकिति' इत्य- मागमः । 'मिदचोऽन्त्यात्परः' । द्वाप्सीरिति । 'अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् इति वा अमागमः । 'रधादिभ्यश्च' इति इविकल्पः । [शीर्ष्णिति] । 'शीर्षेश्छन्दसि ।।