पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

बालः । पोतः पाकोऽर्भकः' इत्यमरः । भुवि अभूत् । सोकोदश्चितहासरश्मिविलस- द्राकोडराजाननं किचिदुत्पन्नहासकान्तिराजमानपूर्णचन्द्रसदृशमुखं तं कोशलाधीश्वर राम अहं शोकोपक्षतये दुःखनिवृत्तये भजामि ॥

पूर्वास्तव्यवधूदृगुत्पलवनीचार्वाकृतीन्दूदयं
वार्वाहध्वनिदायिनं च धनुषे शार्वाय भङ्गक्षणे ।
गीर्वाणारिचमूदधेरतितरामौर्वायमाणं रणे
पूर्वाराधितमाश्रये रघुपत्तिं दूर्वादलश्यामलम् ॥ ६४ ।।

पूर्वास्तव्यवधूदृगुत्पलवनीचार्वाकृतीन्दूदयं पौरनारीनेत्रोत्पलवनसंतोषकरातिमनोज्ञच न्द्रसदृशं भङ्गक्षणे शार्वाय शांकराय धनुषे वार्वाहध्वनिदायिनं वार्वाहः मेघः रणे गीर्वा- णारिचमूदधेः राक्षससैन्यसमुद्रस्य और्वायमाणं और्वः वडवाग्नि- ! 'और्वस्तु वाडवो वड- वानलः' इत्यमरः । पूर्वाराधितं, दूर्वादलश्यामलम् । 'दूर्वा तु शतपर्विका' इत्यमरः । दूर्वायाः दल इव श्यामलं रघुपतिमाश्रये ॥

पेटी विक्रममौक्तिकस्य सुमनोवाटी मुनीन्द्रालिनां
शाटीभावितवल्कला धृतजटाजूटीभवत्कुन्तला ।
चेटीभूतजगदशाननशिर:पाटीपुरुर्वीसुता-
पाटीराङ्कभुजान्तरा मम मनस्याटीकते भावना ॥ ६५ ।।

विक्रममौक्तिकस्य पेटी । स्थानमित्यर्थः । मुनीन्द्रालिनां ऋषिश्रेष्ठश्रमराणां सुमनो- वाटी उद्यानम् । 'वाटी वास्तौ गृहोद्यानकट्योः' इति हैमः । शाटीभावितवल्कलधारिणी धृतजटाजूटीभवत्कुन्तला जटाधारिणी चेटीभूतजगद्दशाननशिरःपाटीषुः चेटीभूतं भृत्य- भूतं जगत् यस्य सः तादृशदशाननस्य रावणस्य शिरःपाटिनः इषवः बाणाः यस्य सः उर्वीसुतापाटीराङ्कभुजान्तरा सीताचन्दनचर्चितवक्षाः तादशी भावना रामविषयभावना मम मनसि आटीकते आगच्छति ॥

प्रालेयांशुनिभाननं सुरतरोद्ले स्थितं सानुजं
शीलेयं हृदि जानकीसहचरं काले यदि त्वन्तिमे ।
फालेषु भ्रमितभ्रुवो यमभटाः कौलेयकैर्दारुणै-
रालेह्यापि न शक्नुयुर्जनयितुं भीलेशमप्येव मे ॥ ६६ ॥

प्रालेयांशुनिभाननं चन्द्रनिभाननं सुरतरोः कल्पवृक्षस्य मूले स्थितं सानुजं जानकी- सहचरं अन्तिमे काले मरणकाले हृदि शीलेयं यदि फालेषु भ्रमितभ्रूवः यमभटाः दारुणैः कौलेयकैः श्वभिः । 'कौलेयकः सारमेयः' इत्यमरः । आलेह्यापि जिह्वाभिः ] मे भीलेश- मपि जनयितुं न शक्नुयुः । न समर्था इत्यर्थः ॥