पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शीकरं चलद्वालाञ्चलोद्घोषकद्गोलाङ्गूलयुतं बलन्ति बालाञ्चलानि अग्राणि येषां ते उद्घोषं कुर्वन्तीति उद्घोषकृतः एवंभूतैः गोलाङ्गूलैः वानरविशेषैः युतं विजयश्रीलाञ्छितं विजयश्रिया राजलक्ष्म्या लाञ्छितं चिह्नितं राघवं भजामि ॥

नैल्यं यद्वपुषः पयोदरुचिभिस्तौल्यं समालम्बते
मूल्यं यस्य कथा करोति कलुषं माल्यं नदीवैश्वरम् ।
लौल्यं मे विषयं निवार्य करुणाशाल्यन्तरङ्गो नृणां
पाल्यं मामपि पश्यतु प्रणमतां वाल्यन्तको यः प्रभुः ।।६१॥

यद्वपुषः नैल्यं नीलिमा पयोदरुचिभिः मेघकान्तिभिः तौल्यं सादृश्यं समालम्बते आ- श्रयति । यस्य कथा कलुषं पापं ऐश्वरं माल्यं नदीव मूल्यं मूलेन बध्यं मूल्यम् । 'नौवयो- धर्म-' इत्यादिना मूलशब्दाद्यत्प्रत्ययः । मे लौल्यम्। स्वार्थे ष्यडप्रत्ययः । विषय विषया- काङ्क्षिणं चक्षुरादि निवार्य प्रणमतां नृणां नृविषये। विषयत्वं षष्ट्यर्थः । करुणाशाल्यन्तरङ्गः दयालुः यः वाल्यन्तकः वालिरिपुः सः प्रभुः मामपि पाल्यं पालितुं योग्यं पाल्य रक्षणीयं पश्यतु । दर्शधातोः लोट् । प्रथमपुरुषैकवचनं प्रार्थनायामर्थे ।

पश्यालीकशरासमञ्जनदशावश्याभिनन्द्यौजसं
पश्यामच्छलभक्तितस्तनुभृतासश्यानपुण्यात्मनाम् ।
शश्याभाननमण्डलां धृतिजितावश्यायशैलां कदा
पश्यामि क्षितिजाकटाक्षपटलीदृश्याकृतिं देवताम् ॥ ६२ ॥

पश्यति लोकानिति पश्यं अलीकं ललाटं तत्रस्थं चक्षुरपि तात्स्थ्यात् अलीके पश्यम- लीकं यस्य सः ललाटाक्षः शिवः तस्य शरासं धनुः तस्य भञ्जनं खण्डनं तस्य दशा तया अवश्य अभिनन्धं ओजः तेजः । 'ओजो दीप्तिप्रकाशयोः । अवष्टम्भो बले धातुतेजसि' इति हैमः। यस्य ताम् । आश्यानपुण्यात्मनां अक्षय्यपुण्यशालिनां तनुभृतां अच्छलभ- क्तितः निष्कपटभक्त्या पश्यां दर्शनीयां शश्याभाननमण्डलां चन्द्रकान्तिसमानमुखमण्डला धृतिजितावश्यायशैलां धैर्यजितहिमवत्पर्वतां क्षितिजाकटाक्षपटलीदृश्याकृतिं सीतावीक्षण- वीक्षणीयमूर्तिं तां देवतां कदा पश्यामि ॥

पाकोऽभूदजनन्दनस्य भुवि य: काकोदरेशेशयो
लोकोपद्रवशान्तये दिविषदामेको जगन्नायकः ।
स्तोकोदञ्चितहासरश्मिविलसद्राकोडुराजाननं
शोकोपक्षतये भजामि तमहं श्रीकोशलाधीश्वरम् ।। ६३ ॥

काकोदरेशेशयः फणीशेशयः । 'काकोदरः फणी' इत्यमरः । शेषशायी एकः मुख्यः जगन्नायकः यः विष्णुः दिविषदां देवानां उपद्रवशान्तये अजनन्दनस्य दशरथस्य पाकः