पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रासाथ प्रयतेत चेद्गिरि तदा का सारवत्ता कवे-
र्हासायैव तु सा भवेन्मतिमतामासादिता चेत्पुरः ।
त्रासादेव विना तथा विरचिता मे साहितिः प्रासभा-
ग्भासा निर्जितमेग राघव कृपामासारयायाः श्रुतौ ॥६७॥

प्रासाय प्रयतेत चेत् यत्नः कृतः चेत् तदा कवेः गिरि वाचि का सारवत्ता सारता। नास्तीत्यर्थः । कि च प्रासबद्धसाहितिः मतिमतां पुरः आसादिता प्राप्ता चेत् भृशं हासा- यैव भवेत् । त्रासादेव विना भयं विना तथा मे साहितिः प्रासभाक् प्रासबद्धा विरचिता भासा निर्जितमेष हे राघव, अस्याः श्रुतौ श्रवणकाले कृपां आसारय वर्षय ॥

प्राजापत्यचरुप्रक्लृप्तजनन: क्ष्माजामवाप्य प्रिया-
माजावुत्कमपि क्षणेन विदधे यो जामदग्न्यं जितम् ।
आजान्वायतबाहुरन्तिकमहीभाजानुजेनावृतः
पूजाकर्मफलं सतां मनसि मे राजा रघूणां वसेत् ॥ ६८ ।।

यः प्राजापत्यचरुप्रक्लृप्तजननः ब्रह्मप्रेषितदिव्यपायससंभूतः क्ष्माजां सीतां प्रियां पत्नीं प्राप्य आजौ युद्धे उत्कं सोत्कण्ठं अपि जामदग्न्यं परशुरामं जितं विदधे। आजान्वायत- बाहुः अतिदीर्घबाहुः अन्तिकमहीभाजा समीपस्थितेन अनुजेन लक्ष्मणेन आवृतः सतां पूजाकर्मफलं रघूणां राजा स रामः से मनसि वसेत् ॥

बन्धा सेतुपथस्य सैन्यगतये सिन्धावुदारोर्मिभी
रुन्धाने शरचापशोभितकरः स्कन्धावसक्तेषुधिः ।
गन्धानेकपचङ्क्रमो भुवि कृतां संधामवन्ध्यां वह-
न्निन्धामात्मनि सोऽवतीर्य सुचिरं तं धारयत्वेप मे ॥६९॥

उदारोर्मिभिः रुन्धाने । गतिमिति शेषः । सिन्धौ सैन्यगतये सेतुपथस्य सेतुमार्गस्य बन्धा निर्माता शरचापशोभितकरः स्कन्धाजसक्त्तेषुधिः गन्धानेकपचङ्गमः मत्तगजगमनः भुवि कृतां संधां प्रतिज्ञां अवन्ध्यां सफलां वहन् स रामः मे आत्मनि मनसि अवतीर्य इन्धां दीप्यताम् । 'नि इन्धी दीप्तौ । एषः आत्मा तं धारयतु ।।

बालोऽप्यध्वरगुप्तये निशिचरानालोप्य यश्चित्रक-
ल्लीलोऽभ्यर्णगतानृषीनिजतनुश्रीलोमिचित्तान्व्यधात्।
कालोद्यत्कमलेक्षणो भवद्वज्ज्वालोत्थसंतापह्र-
न्त्रैलोक्यप्रभुरेष पूषकुलभूरालोक्यते मे हृदि ।। ७० ।।

यः बालोऽपि अध्वरगुप्तये विश्वामित्रयागत्राणार्थं निशिचरान् मारीचसुवाहुप्रमुखान्