पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आयुधविशेषः तस्यावलोकः दर्शनम् तेन उत्थितः त्रासः तस्य आधिक्यं तस्य वशाः अत एव अतिनिःसृतः अत्यन्तमुत्पन्नः गुरुश्वासः दीर्धनिःश्वासः येषां ते तैरमरैः प्रार्थितः। व्यासाभिष्टुतवैभवः व्यासेन मुनिना अभिष्टुतं वैभवं यस्य सः तादृशः हरिः इलां भूमिम् । 'इरा भूवाक्सुराप्सु' इत्यमरः । रलयोरभेदः । आसाद्य प्राप्य भासामीशितुः सूर्यस्य कुले सः राघव एव मे कुशलं साधयेत् ।।

चर्या यस्य खराहवादिरमरीपर्यायगीता भृशं
धुर्या गायकलोकदुस्त्यजविपन्निर्यापणे केवलम् ।
पुर्या किं मरुतां परिक्षयजुषां धुर्यावहन्त्येत्यहं
कुर्यामुत्तरणं त्वमुष्य कथया तर्या भवाम्भोनिधेः ॥ ३९ ।।

यस्य भृशं अमरीपर्यायगीता गायकलोकदुस्त्यजविपन्निर्यापणे गायकलोकस्य गन्धर्व- लोकस्य दुस्त्यजा अनिवर्तनीया विपत् तस्याः निर्यापणे निवृत्तौ केवलं मुख्यतया धुर्या धुरंधराः खराहवादिः खरयुद्धादिः चर्या चरित्रम् । विराजते इति शेषः । परिक्षयजुषा क्षय- वता मरुतां देवानां धुर्यावहन्त्या धुर्या भारः तां वहतीति धुर्यावहन्ती तया। देवान्वहन्त्ये. त्यर्थः। पुर्या पुरेण किम् । न किमपि प्रयोजनम् । इत्यस्मात्कारणात् अमुष्य रामस्य भवाम्भो- निधेः संसारसागरस्य तर्या नावा उत्तरणं कुर्याम् ॥

चूलीभूतजटाकलापमिषुधिव्यालीढवामांसकं
कालीयाधिकभीमकार्मुकधरं नालीकरम्येक्षणम् ।
कालीरङ्गरणस्थरावणशिरस्तालीफल भ्रंशना-
केलीतर्पितकंकवायसशिवापालीकमेकं भजे ॥४०॥

चूलीभूतः शिरोलंकारभूतः जटाकलापः जटासमूहः यस्य तम् । इषुध्या तूणेन । 'तूणे- षुधी उपासङ्गःइति रत्नकोशः । व्यालीढः संयुक्तः वामांसः यस्य तम् । कालीयात् सर्प विशे- षात् अधिकभीमं अधिकभयंकरं यत् कार्मुकं तस्य धरं धरन्तम् । नालीके इव पङ्कजे इत्र रम्ये मनोज्ञे ईक्षणे नेत्रे यस्य तम् । काल्याः रणकाल्याः रङ्गं आवासस्थानं यद्रणं तत्र तिष्ठति इति रणस्थः यः रावणः तस्य शिरांस्येव तालीफलानि तालफलानि तेषां नंशनाक्रान्त- मेव केली तया तर्पिता संतर्पिता कंकवायसशिवाः गृध्रकाकजम्बुकाः तेषां पाली पङ्क्तिः यस्य तमेकं मुख्यम् ॥

जन्याभावितभानुसंततिरिलाकन्यामवाप्तुं प्रियां
धुन्याकल्पशिरःशरासदलनो वन्याविहारप्रियः ।
मुन्याकाङ्क्षितकर्मकृन्निजशरोदन्याकृताम्भोनिधिः
जन्याविद्धदशाननो रघुपतिस्तन्यादभीष्टं मम ॥ ४१ ॥