पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

जन्या जन्म तेन भाविता संभाविता भानुसंततिःसूर्यसंततिर्येन सः इलाकन्यां भूसुतां प्रियां पत्नी अवाप्तुम् । धुनी गङ्गा आकल्पः आभरणं यस्य तत् धुन्याकल्प शिरः यस्य सः धुन्याकल्पशिराः तस्य शरासनं धनुः तत् दलयति खण्डयति इति दलनः । वन्या वनं तत्र विहारप्रियः । मुनिभिः आकाङ्क्षितानि प्रार्थितानि यानि कर्माणि रावणवधादीनि तानि करोतीति कृत् निजशरैः उदन्याकृतः अल्पसरः तदिव कृतः अम्भोनिधिः समुद्रः यस्य सः। जन्यं युद्धम्। 'युद्धमायोधनं जन्यम्' इत्यमरः। तत्र आविद्धः दशाननः येन सः॥

जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं
शातोदर्यपि येन गौतममुनेः पूतोपलत्वं जहौ ।
छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पति
नातो राघवतोऽपरं शरणमित्यातोद्यमाघोषये ॥ ४२ ॥

मिहिरान्वये सूर्यवंशे । 'मिहिरारुणपूषणः' इत्यमरः । नियमिना विश्वामित्रेण । गौतम- मुनेः शातोदर्यपि वनिता अहल्यापि येन रामेण पूता सती चरणविन्यसनेन उपलत्वं शि- लात्वं जहौ । छातं च्छिन्नं उमापतिकार्मुकं शिवधनुः येन तम् । अतः राघवतः अस्माद्रा- मात् अपरमितरं न शरणं इति आतोद्यं भेरीवाद्यं सर्वेषां श्रवणार्थमाधोषये ॥

जाने न त्वदुपासनं धरणिभूजाने जपं वा मनो-
र्दीनेनापि कृतो जनेन कुरुते योऽनेनसं तं तव ।
स्थाने किं तदितं विधीन्य1दविधायानेहसो यापनं
हे नेतर्जगतामवाध शुभधीदानेन मां केवलम् ॥ ४३ ।।

हे धरणीभूजाने सीतापते, यः रामषडक्षरीमन्त्रजपः दीनेनापि अशुद्धेनापि जनेन कृतश्चेत् तं जपितारं अनेनसं कुरुते तं तव मनोः मन्त्रस्य जपं वा त्वदुपासने वा न जाने । न जानामीत्यर्थः । विधीन् धर्मशास्त्रोक्तविधीन् तदुक्तकर्माणि अविधाय अननु- ष्ठाय अनेहसः दिनस्य यापनं प्रापणमिति यत् तत्स्थाने किम् । योग्यं किम् । अनहमित्यर्थः । हे नेतः हे जगन्नायक, शुभधीदानेन मां केवलं मुख्यतया अव रक्ष ॥

जम्भारिप्रमुखामरेन्द्रमुकुटीसंभाव्यमानाङ्घ्रये
कुम्भाभक्षितिकन्यकाकुचपरीरम्भाधिकाहंयवे ।
दम्भाविष्कृतिदक्षराक्षसरणारम्भातिविक्रान्तदो-
स्तम्भायास्तु ममैष कोसलसुताडिम्भाय सेवाञ्जलिः ॥४४॥

जम्भारिप्रमुखाः इन्द्रादयः ये अमरेन्द्राः तेषां मुकुट्यः ताभिः संभाव्यमाने पूजिते अङ्गी यस्य तस्मै । क्षितिकन्यकाकुचौ सीताकुचौ कुम्भस्याभेव कान्तिरिव आभा ययोः१'अपहाय' इति पाठान्तरम्,