पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

त्यजति अपथे दुर्मार्गे सर्तारोऽपि वर्तमाना अपि आर्तान्वयं दीनसमूहं अदर्तारं रक्षितारं रघुपतिं श्रिताः आश्रिताः।

कन्तुर्हन्ति मनो विधेयविरहान्मन्तुः क्रमादेधते
किंतु स्मर्यत एव नाङ्घ्रिकमलं हन्तु: पुरां वा मधोः ।
गन्तुर्मे विषयाध्वसीम्नि धनिनां नन्तुश्च कुक्षिंभरेः
सन्तु श्रीरघुवीरपादभजनात्संतुष्यतोऽनेहसः ॥ २५ ॥

कन्तुः इच्छा विधेयविरहात् मनसा यदीप्सितं कार्यं तत्कर्तुमशक्यत्वात् मनः चित्तं हन्ति बाधते । मन्तुः अपराधःपुरां हन्तुः ईश्वरस्य मधोर्हन्तुः विष्णोः एतयोः अङ्घ्रिक- मलं चरणारविन्दं न स्मर्यत एव । धनिनां नन्तुः। कर्मणि षष्ठी। धनिकान्सेवमानस्येत्यर्थः । रघुवीरपादभजनात् संतुष्यतः संतुष्टस्य मे मम अनेहसः दिनानि सन्तु । रघुवीरपादभजने- नैव दिनानि गच्छन्त्विति निष्कृष्टोऽर्थः ॥

कङ्कालाभरणीयचापदलनाटंकारभिन्नाम्बरं
शङ्काकृष्टकुठारभृन्मदशिलाटंकायमानौजसम् ।
लङ्कानायकवाहिनीचरमहातङ्कावहज्यास्वनं
तं कालाम्बुदमेचकं रघुकुलालंकारदीपं भजे ॥ २६ ॥

कङ्कालाभरणः शिवः तत्संबन्धी यः चापः तस्य दलना खण्डनं तस्य टंकारः तेन भिन्नं अम्बरं यस्य तम् । शङ्कया आकृष्टः समीपमागतः यः कुठारभृत् परशुरामः तस्य मदः गर्वः स एष शिला पाषाणः तस्याः टंका शिलाभेदी कश्चन आयुधविशेषः सेव ओजः यस्य तम् । आतङ्कं बहतीति आतङ्कावहः ज्यायाः मौर्व्याः स्वनः शब्दः यस्य तं प्रकाशकम् ।।

कङ्कालैर्द्विषतां नवैः सुखितवान्कङ्कावलि कैतव-
न्यङ्कार्पितशासनो धनघटाशङ्कावहस्तेजसा ।
अङ्कारोपितमैथिलीकुचतटालंकारकस्तूरिका-
पङ्कालेपनकौतुकी दिशतु मे लङ्कारिपुर्मङ्गलम् ॥ २७ ॥

द्विषतां शत्रूणां कङ्कालैः अस्थिभिः कङ्कावलिं गृध्रसमूह सुखितवान् सुखिनं कृतवान् । कैतवन्यङ्कौ मायामृगे मारीचे अर्पितं शासनं शिक्षा येन सः । घनघटा मेघसमूहः । अङ्कं उत्सङ्गं आरोपिता प्रापिता या मैथिली तस्याः कुचतटालंकारकस्तूरिकापङ्कालेपने मकरि- कापत्रादिनिर्माणे कौतुकी ॥

का शङ्का मम कार्तिकेयवपुषाप्याशंसनीयद्युता-
वैशं कार्मुकमाशुदारितवति क्ष्माशंकरे विक्रमैः ।