पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

एकं साधु करोति यः प्रपतनं साकं धियानन्यया
लोकं तं भुवने नयन्तमभयं पाकं रघूणामपि ।
शोकं मोपगमं कृतान्तविकटभ्रूकम्पवाक्यैरिति
क्ष्माकन्याचिरसंभृतव्रतपरीपाकं तमेवाश्रये ॥ २१

यः अनन्यया अव्यभिचारिण्या प्रपतनं नमस्कारं साधु सम्यक् करोति तनोति तं नमस्कारिणं लोकं जनम् । 'लोकस्तु भुवने जने' इत्यमरः। भुवने जगति अभयं निर्भयं नयन्तं कुर्वाणम् । पाकं परिपक्वफलरूपं डिम्भं वा कृतान्तस्य यमस्य विकटे विस्तृते भ्रूवौ वाक्यानि च तैः शोकं दुःखं मोपगमं इति तमेव राममेव आश्रये ॥ एषा मेऽञ्जलियन्त्रणास्तु पदयोभूषायितैः पांसुभिः

पाषाणं कलभाषिणी कृतवते दोषानपाकुर्वते ।
शेषाकारकरात्तभीमधनुषे दोषाचरेशद्विषे
रोषावेशविशोषिताब्धिपयसे पूषान्वयश्रेयसे ॥ २२ ॥

पदयोः चरणयोः । भूषायितैः पांसुभिः पाषाणं शिलां कलभाषिणी अहल्याम् । अपा- कुर्वते तिरस्कुर्वते । दोषाचरेशः रावणः तस्य द्विषे शत्रवे। पूषा सूर्यः । अञ्जलियन्त्रणा अञ्जलिबन्धः॥

कल्पापायघनारवस्मयभिदा शिल्पाकरेणादिश-
ञ्जल्पाकेन रणे जयस्य धनुषानल्पामरीणां व्यथाम् ।
कल्पागो भजतां स पातु करुणाकल्पावलोकोऽशुभ-
त्कल्पानेकशरः पुरा रघुपतिस्तल्पायिताहीश्वरः ।। २३ ॥

कल्पापायः प्रलयकालः तत्र विद्यमानः यः घनारवः मेघध्वनिः तस्य स्मयः गर्वःतं भिनत्तीति भिद् तेन शिल्पाकरेण चित्राणि कर्माणि कुर्वता रणे जयं जल्पता आदिशन् कुर्वन् भजन् । भजतां कल्पाग: देवदारुः करुणाकल्पावलोकः कृपालंकृतवीक्षण: पुरा अवतारात्पूर्वं विष्णुत्वे तल्पायिताहीश्वरः । शेषशायीत्यर्थः ॥

कर्ता कंजभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना
हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति ।
धर्तारं धनुषः शरैः सह तमादर्तारमार्तान्वयं
सर्तारोऽप्यपथे श्रिता रघुपत्तिं वर्तामहे निर्भयाः ॥ २४ ॥

कंजभवात्मनाब्रह्मरूपेण कर्ता स्रष्टा । मुकुन्दात्मना विष्णुरूपेण भर्ता पालकः।हरात्मना शंकरात्मना हर्ता संहारकः। यस्य स्मर्ता। कर्मणि षष्ठी । एवमन्यत्रापि । यत्स्मर्ता उज्झति