पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

क्लेशं हन्तुमुपस्थिते रघुरतौ दाशं सखायं गते
कीशं चापि विदेहराजदुहितुः साशं मनः कुर्वति ॥ २८ ॥

कार्तिकेयवपुषापि सुब्रह्मण्यशरीरेणापि आशंसनीया प्रार्थमाना द्युतिर्यस्य सः । ऐशं शैवं कार्मुक धनुः । क्ष्माशंकरे क्षमा भूमिः तस्या शंकरे मङ्गलकरे उपस्थिते सति समी- पस्थिते सति । दाशं गुहं कीशं सुग्रीवमपि सखायं मित्रम् । साशं आशाराहितम् ।।

कामीहे गतिमित्युदञ्चितभयग्रामीणलङ्कापुरी-
सामीचीन्यहरेषुपावकदलद्वामीसुखाग्निस्मयः ।
आमीलकमलोपमाञ्जलिसुरश्चामीकरालंकृतः
स्वामी नः शरणं स एक भुवने भूमीसुतावल्लभः ।। २९ ।।

उदश्चितं उत्पन्नं भयं येषां ते ग्रामीणाः लङ्कावासिनः उदच्चितमयाः ग्रामीणाः य स्याः सा तादृशी या लङ्कापुरी तथा सामीचीन्यं सुखस्थितिः तां हरतीति हरः यः इषुः बाणः तस्य पावकेन अग्निना दलत् निरस्तः वामीमुखाग्निः वडवाग्निः तस्य स्मयः अहंकारः, यस्य सः॥

कारागारसमालसंसृत्तिनिराकाराय सञ्चिन्मयं
धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मयाः ।
तारादेवरमुख्यवानरपरीवाराय नीराकर-
स्फाराटोपहराय रावणजिते वीराय तस्मै नमः ॥ ३० ॥

कारागारं बन्द्यागृहं तस्य समाना' या संसृतिः संसारः तस्य निराकाराय निवर्तकाय । सच्चिन्मयं सच्चिद्रूपं यं धीराः तीवभक्तिमन्तः । नीरागमोहस्मयाः रागमोहगर्वरहिताः । तारादेवरः सुग्रीवः । नीराकरः समुद्रः ।।

किं देवरितरैः प्रपन्नहरणे संदेहकृद्भिर्नृणां
विन्देयं यदि तान्विमूढ' इति मां निन्देयुरार्या न किम् ।
किं देयं किमदेयभित्यविदुषं तं देहिनामिष्टदं
वन्दे कंचन वञ्चनामृगरिपुं मन्देतरश्रेयसे ॥ ३१ ।।

प्रपन्नहरणे शरणागतसंरक्षणे संदेहद्भिः इतरैर्देवैः किम् । तान् पूर्वोक्तान् विन्देयं यदि शरणं गतो यदि आर्याः पूज्याः मां विमूढ इति न निन्देयुः किम् । निन्देयुरेवेत्यर्थः । किं देयं दातुं योग्यं कि अदेयं इत्यस्मिन्विषये अविदुषं अविद्वांसम् । सकलेष्टदातारमित्यर्थः।व- ञ्चनामृगः तस्य रिपुम् ॥