पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

निजस्य स्वस्थ पुरोवासीभव-मारुतिः यस्य तस्य स तथोक्तः। पुरः स्थितहनुमानित्यर्थः । श्रीसीममूर्त्या अधिकसौन्दर्यवत्या । नासीरं सेनामुखम् । प्रकृते सभायाम् । अर्पितः दत्तः हारः मुक्ताहारः यस्मै सः॥

आदित्वं दधदव्यशेषजगतां यो दिव्यपत्यान्तकृ.
व्द्यादिष्टो विबुधैर्भवान्रिपुहरः स्यादित्यवन्यामभूत् ।
नेदिष्ठं तपसां फलं नवसुधास्वाद्विमन्तः सता-
मादित्यान्वयदीपमाश्रयति तं मे दिक्षु कीर्णं मनः ॥ १४ ॥

यः अशेषजगतां समस्तजगतां आदित्वं आदिकारणं आदिकारणत्वं दधदपि दित्यप- त्यान्तकृत् दितेः अपत्यानि असुराः तेषामन्तकृत् नाशकृत् । व्यादिष्टः प्रार्थितः । नेदिष्ठं अन्तिकतमं नवसुधा असिनवामृत तदिव स्वादु रुच्युत्पादनं इष्टं सतां महताम् । अन्तः मनसि । दीपं प्रकाशनम् । कीर्ण व्याप्तम् ॥

आखावाहितविग्रहो जगति यः शैखावतो यत्कर-
स्तौ खाटप्रवरौ यदीयमनुना मौखानुबन्धोज्ज्वलौ ।
साखादोद्यतकुम्भकर्णजयिनी शाखामृगानीकिनी
रे खामध्यगतावतात्पणिपतल्लेखावलिर्देवता ॥ १५ ॥

आखौ मूषिके । 'खर्वाखुर्वालमूषिका' इति दुर्ग. । आहितं न्यस्तं विग्रहं शरीरं यस्य सः। विघ्नेश्वर इत्यर्थः । यत्करः यस्य शिवस्य करः शेखावतः अग्निमान् तौ खाटप्रवरौ खे अट- न्तीति खाटाः तेषां प्रवरौ श्रेष्ठौ शिवविघ्नेश्वरौ । यदीयमनुना यस्य रामस्य मनुना मन्त्रेण मौखानुबन्धोज्ज्वलौ मुखालंकारसहितौ । एतद्रामतापनीयाख्ये ग्रन्थे प्रसिद्धम् ।। 4 इच्छां मे शृणु राम कामपि विभो कच्छातिरूढातसी-

गुच्छाङ्गप्रम मर्दितुं मम समागच्छान्तरं हस्ततः ।
पृच्छां मा कुरु मृद्यतां कथमिति स्वच्छांशुकीर्ते भवा-
नच्छानत्त्वरितं किमद्रिसदृशं तच्छाम्भवं कार्मुकम् ।। १६ ।।

कच्छः जलसमीपवृत्तिदेशः । 'कच्छमनूपे' इति बोपालितः । तत्राधिरूढा उत्पन्ना अतसी पुष्पविशेषः तस्याः गुच्छं मञ्जरी तदिव अङ्गप्रभा यस्य तस्य संबोधनम् । मम अन्तरं चञ्चलचितं समागच्छ विश । अणुत्वात्कथं मर्दनं संभवतीति पृच्छां मा कुरु । अद्रिसदृशं तत् सीतापरिणयपणनभूतं शाम्भवं कार्मुकं धनुः भवान् नाच्छानत्कि नच्छिन्नवान् किम् । खण्डितवानेवेत्यर्थः । 'छो छेदने श्यनि लुङ्रूपम् । अणुं यत्नात् मर्दय । अनवयनित्वादेव च्छेदो न प्रार्थितः किंतु मर्दनमेव ।।