पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ऊहन्ते नियमेन यं नियमिनो गेहं विशन्तो गुहां
यो हंसाकृतिरस्ति देहिषु चतुर्व्यूहं च गृह्णाति यः ।
देहं चेन्द्रियमण्डलं च पृथगेवाहं पदार्थाद्विद-
न्सोऽहं भावनया भजे तमधुना मोहं विना राघवम् ॥१७॥

यं रामं गुहां गेहं विशन्तः । गुहायासिन इत्यर्थः । नियमिनः योगिनः नियमेन चित्तचाञ्चल्यराहित्येन ऊहन्ते तर्कयन्ति । यः देहिपु प्राणिषु हंसाकृतिः परमात्मरूपी अस्ति । चतुर्व्यूहं केशवादिव्यूहं संकर्षणादिव्यूहं वा गृह्णाति स्वीकरोति ।।

ऊरूपर्युपवेशितप्रियतमं मेरूपमानं श्रियः
चारूपस्थितमग्रतो हनुमताध्यारूढसिंहासनम् ।
गीरूढं कविमण्डलस्य चरणस्त्रीरूपितकोपलं
दारूपाहितराज्यसंमदमिमं धीरूहते मामिका ॥ १८ ॥

ऊरूपर्युपवेशिता अङ्कस्था प्रियतमा यस्य तम् । गीरूढं गीर्षु रूढम् । कविमण्डलस्तुत्य- मित्यर्थः । चरणेन पादेत स्त्रीरूपं प्राप्ता एकोपला यस्य तम् । दारूणि पादुकाभ्यां उपाहिता विन्यस्ता राज्यसंपदः येन तम् ।।

एत्याभीक्ष्णमनादिकर्मपटलीं वात्यामिवैप भ्रम-
न्यात्यायाति परत्र चेह च मुहुर्भीत्या च संयुज्यते ।
भीत्यागाय ततश्च भूतकरुणाचैत्यायमानेक्षणं
कात्यायन्यधिनाथकार्मुकमिदं दैत्यारिमालम्बते ॥ १९ ॥

एषः जीवः अनादि: आदिशून्या या कर्मपटली कर्मसमूहः ताम् अभीक्ष्णं पुनः पुन: एति प्राप्नोति । पूर्वकर्मानुगुण्येन जन्म लभत इत्यर्थः । वात्यां वातसमूहम् भीत्यागाय भय विसर्जनायेत्यर्थः । संबोधनम् । ततः तस्मात् कारणात् भूतेषु करुणा तस्याः चैत्या. यमाने ईक्षणे यस्य तम् । चैत्याः रथ्याकोणस्थिताभिज्ञानवृक्षाः ॥

एके माधवमिन्दुमौलिमपरे नाकेशमन्ये नमो.
वाकेनानुसरन्तु न त्वहमपि स्तोकेन तामाश्रये ।
साकेतेशमुपैमि किंतु शरणं या केकसी विश्रव-
स्तोकेनाजनि भीरपास्य खलु तां लोके भजन्तं यशः॥२०॥

एके केचिज्जनाः माधवं विष्णुम्,अपरे इन्दुमौलि शङ्करम् ,अन्ये नाकेशमिन्द्रम् , नमोवा- केन नमःशब्देन अनुसरन्तु नमस्कारं कुर्वन्तु । अहं तु तान् पूर्वोक्तान् स्तोकेनापि किंचिदपि नाश्रये । या भीतिः विश्रवस्त्तोकेन रावणेन अजनि उत्पन्ना तां भीति अपास्य दूरीकृत्य ॥