पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रामाष्टपासः। उपासत क्रियापदम् । 'आस उपवेशने । आड्पूर्वः लडि प्रथमपुरुषबहुवचनमात्मने- पदि । विधेः ब्रह्मणः । करुणाकोशाय दयानिलयाय । कीशाकारधरैः वानररूपिभिः॥

आयामस्फुरदक्षिपद्ममभितो जायानुजाभ्यां युतं
ध्येयाकारमुदारयोगिमनसां कायानुकार्यम्बुदम् ।
मायामानुषमर्कसंततिभुवो दायादमुर्वीपतेः
भूयासं प्रणतः प्रणम्य च शुभप्रायामुपेयां गतिम् ॥ १० ॥

स्ववीक्षणेन सर्वोऽपि वर्धत इति । अभितः आयामेन वैशाल्येन स्फुरत् प्रकाशमानं अ- क्षिपद्मयुगलं यस्य तम् । जाया सीता अनुजः लक्ष्मणः ताभ्यां युतम् । ध्येयःध्यातुं योग्यः आकारः स्वरूपं यस्य तम् । उदारं निर्मलम् । कायानुकार्यम्बुदं कायं शरीरं अनुकरोतीति कायानुकारी अम्बुदः मेघः अस्य तम् ॥

आसन्नक्षितिकन्यकाकुचतटव्यासङ्गिहारावलि-
श्रीसंक्रान्तसविभ्रमाक्षिवलनो हासं वितन्वन्मृदु ।
वासन्तीस्रगलंकृतो मलयजोल्लासं वहन्वक्षसं
दासं रक्षतु मामसौ रधुपतिस्त्रासं निरस्याखिलम् ॥ ११ ॥

आसन्ना समीपस्था या क्षितिकन्यका जानकी तस्याः कुचतटं तत्र व्यासङ्गिनी ल- म्बमाना या हारावली मौक्तिकहारपतिः तस्याः श्रीः शोभा तस्यां संक्रान्तं संनिबद्धं अ- क्षिवलनं अक्षिसंचारः यस्य सः । वासन्तीस्रक् मल्लिकामाला तया अलंकृतः । मलयजो- ल्लासं मलयचन्दनम् । मम अखिलं त्रासं निरस्य मा रक्षतु ॥

आदेहच्युति दुर्जयेन्द्रियतया स्यादेव चेत्पातकं
भूदेवाभिजनेऽपि तद्भवतु नः सीदेम किं तावता ।
वेदेषु स्फुटवैभवं दशमुखच्छेदेन दीप्तौजसं
वैदेहीरमणं प्रणम्य तु वयं मोदेमहि ज्ञायताम् ।। १२ ।।

देहस्य च्युतिः मरणं तदभिव्याप्य आदेहच्युति मरणपर्यन्तम् । दुर्जयानि इन्द्रियाणि य- स्य सः । तस्य भावः तत्ता तया । भूदेवाभिजनेऽपि ब्राह्मणरूपे उत्तमजन्मन्यपि पा- तकं भवतु तावता वयं सीदेम किम् । षद्धातुः विशरणाद्यर्थः । विधिलिडि उत्तमपुरुष- बहुवचनम् ॥

आसीनः कनकासने निजपुरोवासीभवन्मारुति-
र्या सीतेति कृताभिधा भुवि तया श्रीसीममूर्त्या युतः ।
नासीरार्पितहारसाञ्जलिसमीपासीददर्कात्मजो
दासीभूतसुर: सकोसलमहीशासी शरण्योऽस्तु मे ॥ १३ ॥