पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ काव्यमाला। नोभयपदित्वमेव । अस्माञ्चुरेणिचि शता । 'केचित्सर्वचुरादीनामनित्यण्यन्ततां जगुः । येषां विकल्पचिह्न स्यात्तेषामेवेति माधवः ॥' चिन्तन्तम् । १५३४ चिति स्मृत्याम् । मिचि 'अनिदितां हल-' इति नलोपाप्रसङ्गात् तनिषेधार्थमिदित्त्वानुपयोगादिदितां गिजनित्यः । तेन णिजभावे शपि शता । अयच्येति । १५३५ यत्रि संकोचने । णिज- न्तादचो यत् । प्रस्फुण्डयन् । १५३६ स्फुडि परिहासे । स्फुटि इत्येके । स्फुण्डेः शता। अभ्युपलक्ष्य । १५३७ लक्ष दर्शनाङ्कनयोः । ल्यप् । कुन्दकेति । १५३८ कुदि अनु. तभाषते । कुछ इत्येके । कुन्देण्वुल् । सुलालितेति । १५३९ लड उपसेवायाम् । क. मणि क्तः । मिन्दितेति । १५४० मिदि स्नेहने । मिद इलेके । मिन्देः कर्तरि क्तः ॥ ओलण्डिताद्रिरपि जालितदिव्यधामा निष्पीडितारिरनुनाटितमयंभावः । अश्राथबाधितमनाः स निरीक्षकाणा- मानन्दमन्तरपरत्परमूर्जयन्तम् ॥ १४ ॥ निरीक्षकाणामश्राथबाधितमना अप्रयत्नवशीकृतचित्तः सन् स भगवान् अन्तर्मनसि परमधिकमानन्दमपरत् पूरयामास । कीदृशः । ओलण्डितादिः उत्क्षिप्तगोवर्धनोऽपि जालितदिव्यधामा छादितामानुषप्रभावः । अनुनाटितमखंभावः अनुकृतमनुष्यस्वभावः। ऊर्जयन्तं बलीभवन्तमानन्दम् ॥-ओलण्डितेति । जालितेति । निष्पीडितेति । अनुनाटि- तेति । १५४१ ओलडि उत्क्षेपणे । ओकार इदित्येके । १५४२ जल अपवारणे। १५४३ पीड अवगाहने । तच बाधनम् । बाधगाहनयोरिति हमे । १५४४ नट अव- स्यन्दने । तच नाट्येनार्थप्रकाशनम् । एषां कर्मणि कः । अश्राथेति । १५४५ श्रथ प्रयत्ने । प्रस्थाने इति केचित् । एरच्' । 'एरजण्यन्तानाम्' इति मते घञ् । बाधितेति । १५४६ बध संयमने । बन्धे इति केचित् । बाधेः कर्मणि क्तः । अपरत् । १५४७ पृ पूरणे । दीर्घोक्तिफलं परितेतीडणिच्येव स्यादिति णिज्विकल्पः । णिजभावे शपि घञ् । ऊर्जयन्तम् । १५४८ ऊर्ज बलप्राणनयोः । शता॥ श्रीकृष्णदर्शनसंजातानन्दानां संभाषणमाहाष्टभिः श्लोकैः- संपक्ष्य तन्निजदृशैवमवर्णि लोकै- रेषोऽजनिष्ट किल दुष्टविचूर्णनार्थम् । अप्रार्थितो ब्रजगृहेऽपि च पर्थिभूतोऽ- दासम्बयञ्जनमति निजशाम्बरीभिः ॥१५॥ लोकैनिंजदृशा तं संपक्ष्य परिगृह्य दृष्ट्वा एवमवर्णि कथितम् । एष दुष्टविचूर्णनार्थ- मजनिष्ट किल । अपि च व्रजगृहेऽप्रार्थितोऽप्रख्यातः सन् पर्थितः प्रक्षिप्तोऽभूत् । निज- १. 'अयत्ने' इति पाठः,