पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाल्यम् । नतां दुष्टानां मतिं क्लिनन् पीडयन् । परिविष्टं विप्रयुक्तमपगतं पापं येषां तैः सद्भिः।- तुम्ननिति । तुभेः शता । क्लिन्नन् । १५२२ क्लिशू विवाधने । अश्नताम् । १५२३ अश भोजने । द्वयोः शता । ध्रस्तम् । उध्रसितान् । १५२४ उध्रस उञ्छे । उकार इदित्येके । मतद्वये कर्मणि निष्ठा । ऐष्यत । १५२५ ईष आभीक्ष्ण्ये । पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् । तन्त्र प्रकरणादिप्राप्तायाः क्रियाया इत्यौचित्याज्ज्ञेयम् । अमा. कमणि लड् । परिविष्टेति । १५२६ विष विप्रयोगे । कर्तरि क्तः ॥ ग्रुष्णन्सतां प्रियमयं प्लुषिताङ्गरागः पुष्णन्मुदं मृगदृशां रिपुधाम मुष्णन् । अकारविन्दखचितस्मितखौनदाभो रङ्गं गतोऽसभुवि दन्तवरं प्रगृहन् ॥ १२ ॥ अय भगवान् अंसभुवि दन्तवरं प्रगृह्णन् रङ्गं गतः प्राप्तः । कीदृशः । सतां प्रियं फु. भणन् पूरथन् । लुषितः स्निग्धो निविडो अङ्गरागो यस्य सः। रिपूणां धाम प्रतापं मुष्णन् । मृगदृशां मुदं पुष्णन् । वकारविन्दात् खचितेन नितान्तोत्पन्नेन स्मितेन खौनती नितान्तं उत्पद्यमाना आभा यस्य सः॥पृष्णन् । १५२७ पुष १५२८ प्लुष स्नेहनसेचनपूर- गेषु । मोहनदाहनयोरप्याह शंकरः । ग्रुषेः शता । शुषितेति । षेः कर्तरि क्तः। पुष्ण- न् । १५२९ पुष पुष्टौ । मुष्णन् । १५३० मुष स्त्रेये। द्वयोः शता । खचितेति । १५३१ खच भूतप्रादुर्भावे । भूतप्रादुर्भावो नितान्तोत्पत्तिः । खच इत्येके । हेट इत्ल. प्येके । खचेः कर्तरि कः । खौनदिति । खरनुनासिकादौ नि परे ऊठ् । तस्य शता। श्रन्यादय उदात्तेतः । क्लिशिविषिवर्जमुदात्ताश्च । प्रगृह्णन् । १५३२ ग्रह उपादाने । उदात्तः स्वरितेत् । असाच्छता । इति नाविकरणम् ॥ अध मल्लरहं गते भगवति कंसस्यावस्थामाह--- संचोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम् । प्रस्फुण्डयन्नपि तमप्युपलक्ष्य कंस- स्तत्रास कुन्दकसुलालितमिन्दितश्रीः ॥ १३ ॥ प्रस्फुण्डयन् परिहसन्नपि केस आप्तं प्राप्तं तं श्रीकृष्णमन्तकमिवाभ्युपलक्ष्य दृष्ट्वा त- त्रास भीतवान् । कुन्दकैः अनृतभाषिभिः सुलालिता मिन्दिता प्रवृद्धा श्रीर्यस्य सः । की- दृशं तम् । अरिगर्व संचोरयन्तम् । अशेषभद्रमशेषाणां मङ्गलम् । चिन्तन्तं निरूपय- न्तम् । अयन्वयमसंकोच्यमनिवारणीयं वीर्यं यस्य तम् ॥-संचारयन्तमिति । १५३३ चुर तेये । अकार उक्त्यर्थः । णिचश्च' इति तद् चुरादेर्नेति मतं माधवदृषितं ते. १. 'सेवन' इति धातुपाठः