पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • &

धातुकाव्यम् । २०७ शाम्बरीभिः खमायाभिर्जनमतिमासम्बयन स्वसंवन्धी कुर्वन् ।-संपश्यति । १५४९ पक्ष परिग्रहे । ल्यप् । अवणि । १५५० वर्ण वर्णने । प्रेरणेऽपीति केचित् । भावे चिण् विचूर्णनेति । १५५१ चूर्ण प्रेरणे । अस्य क्षोदनमप्यर्थः । तदेव वा प्रेरणमित्यु- क्तम् । अस्माल्युट । अप्रार्थितः । १५५२ प्रथ प्रख्याने । क्षेपे च द्रुमे । कर्तरि क्तः। पर्थितः । १५५३ पृथ प्रक्षेपे । पथ इत्येके । कर्मणि कः । आसम्बयन् । १५५४ पन्ब संबन्धने । १५५५ शन्बेलेके । साम्बेत्यन्ये । साम्बेः शता । शाम्बरीभिः । शम्बेर्बाहुलकादरप्रत्यये शम्बरः । तस्येयं शाम्बरी ॥ सा पूतना च शिशुभक्षणकुट्टनोत्का जन्ने प्रपुट्टितकपेण विचुट्टिताधा । नात्यासुरः पुनरनट्टयविसुट्टकः स- नेतेन लुण्ठितबलोऽजनि शाठितात्मा ॥ १६ ॥ एतेन सा पूतना जन्ने । अपुहिताल्पीभूता कृपा यस्य तेन । शिशूनां भक्षणे कुट्टने छेदने चोत्कोत्सुका विचुट्टितमल्पीभूतं गतमघ यस्याः सा । पुनः--वाल्यासुर एतेन लु- ण्डितबलो मुषितबलोऽजनि जनितः । अनभ्यविसुदृकः आदरणीयानामनादरकृत् सन् भवन् शाठितात्मा असंस्कृतचित्तः ॥--भक्षणेति । कुट्टनेति । १५५६ भक्ष्य अदने । १५५७ कुट्ट छेदनभनियोः पूरणे इत्येके । द्वयोल्युट् । प्रहितेति । विचुट्टितेति । १५५८ पुट्ट १५५९ चुट्ट अल्पीभावे । द्वयोः कर्तरि कः । अनछ्यविसुट्टकः । अट्ट १५६० घुट्ट १५६१ अनादरे । अल्पीभावे च द्रुमे । क्रमात् 'अचो यत्' इति यत् , बुल् च । झुण्ठितेति । १५६२ लुण्ठ स्तेये । अनादरे च द्रुमे । शाठितेति । १५६३ शठ १५६४ श्वष्ठ असंस्कारगत्योः । श्वठि इति केचित् । संस्कारे च द्रुमे । आद्य आलस्ये च । लुण्ठिशाठ्योः कर्मणि क्तः ।। आश्वाठितारिकुलतुजविपिञ्जशीलः संपेसयन्गृहमसान्त्वयदेष गोपीः । सुश्वल्कनाः सुमधुरप्रियवल्कनाभिः प्रस्नेहयन्न च कदाचिदसिस्मिटत्ताः ॥ १७ ॥ एष गृहं संपेसयन् प्राप्नुवन् गोपीरसान्त्वयत् । आश्वाठितस्थागतस्यारिकुलस्य तुञ्ज विपिञ्जशीलो हिंसाग्रहणशीलः । हननशील इति यावत् । ताः सुमधुरप्रियवल्कनाभिः सुमधुरैः प्रियभाषणैः प्रस्नेहयन स्निग्धाः कुर्वन् कदाचिदपि नासिस्मिटदनादृतवान् । सुश्वल्कनाः शोभनोक्तीर्गोपीः ॥--आश्वाठितेति । श्वः कर्तरि क्तः । तुञ्ज विपिजेति । १५६५ तुजि १५६६ पिजि हिंसाबलादाननिकेतनेषु । दाने बहुमे । तुज पिज इसके । लजि लुजि इत्यन्ये । तुजिपिज्योर्घञ् । संपेसयन् । १५६७ पिस गतौ ।