पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१ धातुकाव्यम् । एवं रागाकुलासु स्त्रीषु भगवतो वृत्तिमाह- जुह्वप्रियो भीरुजनं हियात पिप्रत्कृपाभारभृतैरपाङ्गैः । अमेयधामा स जहेऽधहानि ददजनेभ्यो मुद्मादधानः ।। ५४ ॥ जुह्वत्प्रियः स जहे । जुह्वतामग्निकर्मानुष्ठातॄणां प्रियः स कृष्णो राजमार्ग एव किंचित् संचरितवान् । कीदृशः । कृपाभारेण मृतैः पूर्णैरपा (रुजनं स्त्रीजनं पिप्रत् संकटात् पालयन् ह्रिया लज्जया आर्त व्याकुलं स्त्रीजनं जनेभ्यो भक्तजनेभ्योऽघहानि दुरितक्षयं ददत् प्रयच्छन् । मुदमानन्दातिशयमादधानश्च ॥--जुह्वदिति । १०८३ हु दानादनयोः। प्रीणनेऽपीति भाष्ये। दानमन्न्यादौ प्रक्षेपः तन्त्रेण । शतरि 'नाभ्यस्ताच्छतुः' इति नुम- भावः । भीरु इति । १०८४ अिभी भये । 'भियः कुक्कुकनौ' इति कुः । हिया। १०८५ ह्री लजायाम् । भावे क्विप् । ह्वादयोऽनुदात्ताः परस्मैभाषाः। पिप्रत् । १०८६ पृ पालनपूर- णयोः । ह्रखान्त इत्येके । उदात्तः परस्मैभाषाः । हस्तान्तस्त्वनुदात्तः शता। भारभूतैः । १०८७ हुभृञ् धारणपोषणयोः । टु भृञ् इति दुमे । कर्मणि पञ् । क्तश्च । अनुदात्त उभयतोभाषः । अमेयेति ।१०८८माङ्माने शब्दे च । 'अचो यत्' । जहे ।१०८९ ओ हा गतौ । लट् । भृजादित्रयं गतम्। अनुदात्तावात्मनेभाषौ । हानिम् । १०९०ओहाद त्यागे। पलाम्ला-' इति निः। अनुदात्तः परस्मैभाषः। ददत् । १०९१ डु दाम् दाने। शता । आद्घानः । १०९२ दुधाञ् धारणपोषणयोः । दानेऽपीलेके । शानच् ॥ मथुरां प्राप्तस्य भगवतः स्वज्ञातीनां यदूनां प्रथमसंगममाह- प्रणेनिजद्भिर्मतिमर्थतत्त्वं सुवेक्जिानैर्यदुभिः स विष्णुः । धर्मोष्मभिस्तत्र समारताने नभस्तुरैस्तैः प्रधने प्रवीणैः ॥ ५५ ॥ स विष्णुस्तत्र तस्मिन्देशे तैर्यदुभिरग्रे समारत संगतोऽभूत् । कीदृशैर्यदुभिः । मति प्रणेनिजद्भिः शुद्धां परिपुष्टां च कुर्वाणैः । अर्थतत्त्वं पुरुषार्थानां सारासारतत्त्वं सुवेविजानैः सुतरां विभजद्भिः। धर्मोष्मभिध्मसदृशप्रतापैनभस्तुरैमेघवद्वेगवद्भिः । प्रधने युद्धे प्रवी- णैः ।।---प्रणेनिजद्भिः । १०९३ णिजिर् शौचपोषणयोः । शता। सुवेविजानैः।१०९४ विजिर् पृथग्भावे । शानच् । विष्णुः । १०९५ विष्ल व्याप्तौ । उदिदित्येके । इरिदिति द्रुमे । “विषेः किन्च' इति चुप्रत्ययः । निजादयोऽनुदात्ताः स्वरितेतः ।धर्मेति । १०९६ धृ क्षरणदीप्योः । समारतेति । १०९८ क गतौ । संपूर्वात् 'समो गम्युच्छि-' इति तड् । अनुदात्ताः परस्मैभाषाः । नम इति । ११०० भस भर्त्सनदीयोः । उदात्त उदात्तेत् । नपूर्वात् क्विप् । तुरिति । ११०२ तुर त्वरणे । उदात्त उदात्तेत् । 'इगुपध-'इति कः । प्रधनेति । ११०४ धन धान्ये । अन्यमरणार्थीदमाद्धार्थे कः । अयमप्युदात्त उदात्तेत् । वृत् । जुहोत्यादयो वृत्ताः । इलुविकरणं समाप्तम् ॥ १. अत्र १०९७ ह प्रसह्यकरणे' १०९९ 'सृ गतौ एतौ धातू नोदाहृतो. २. अत्र '११०१ कि ज्ञाने नोदाहृतः. ३. अत्र '११०३ धिष शब्दे ११०५ जन जनने ११०६ गा स्तुतौ एतेऽपि नोदाहृताः.