पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ काव्यमाला। अथ रजकवधप्रसङ्गसाह-- दीव्यन्देवो विचित्रस्युवमथ रजक प्रेक्षतास्यूतमत्रे ष्ठीव्यन्तं तत्रतत्र स्नुसितफलंगणान्नोव्युषः प्योसहीनन् । तं प्लुष्यदृष्टिनृत्यद्रुषमपि च गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम् ॥५६॥ अथ दीच्यन् गच्छन् देवः क्रीडादि. कुर्वन् हरिरग्रे आख्यूतमागतं रजकं प्रेक्षत । कीहक् देवः । कोव्युषः कसां कुटिलीभवतां व्युषः दाहकः । कीदृशं रजकम् । विचित्र- स्युवम् । नानारूपं सूचिकर्म कुर्वन्तम् । स्नुसितान् भक्षितान्' फलगणान् प्योसहीनं विभागशून्यं यथा तथा तत्र तत्र ष्टीव्यन्तं ष्ठीवनं कुर्वन्तम् । प्योसहीनमिति रजकविशे- षणं वा । अपि च पुष्पमाध्वी क्षिप्यता निरस्यता स्वरेण तं प्रोचे । कीदृशं तम् । पुष्यन्ला ज्वलन्त्यां दृष्टौ नृत्यन्ती रुट् यस्य तम् । उत्कुश्यत् पूतीभवदङ्गं यस्य तम् । पोथ्यं हिंसनीयम् । खजनेन विगुधितं परिवृतम् ॥-दीव्यन्निति । ११०७ दिवुक्रीडा- विजिगीषाव्यवहारद्युतिस्तुतिगतिषु । व्यवहार उक्तिक्रियादिश्च । विदि (दिवि) रैश्वर्यार्थ इति देवतान्तादिसूत्रे प्राह हरः । अस्मात् गत्यर्थे शता । देव इति क्रीडादौ पचायच् । विचित्रस्युवम् । ११०८ षिषु तन्तुसंताने । विपि ऊ । आख्यूतम् । ११०९ स्त्रि गतिशोषणयोः । कर्तरि क्ते 'ज्वरत्वरसिव्य-' इत्यूठ । ष्टोव्यन्तम् । १११० ष्ठिवु निरसने। आस्यान्निःसरणं तत् । शता । स्नुसितेति । ११११ ष्णुसु अदने। कर्मणि कः।१११२ ष्णुसु निरसने इति केचित् । इति । १११३ कसु हरणदीप्त्योः । किम् । व्युषः ।१११४ व्युषं दाहे । 'इगुपध-' इति का । प्योसेति । प्युस विभाग इत्येके । घञ् । प्Yष्यदिति । १९१५ प्लुष च । दाहे इति शेषः । शता । नृत्यदिति । १११६ नृती गात्रविक्षेपे । शता । त्रासेति । १९१७ त्रसी उद्वेगे। पञ् । उत्कुष्यदिति । १११८ कुथ पूतीभावे । दुर्गन्धीभावस्तत् (!)। शताः । पोथ्यम् । १९१९ पुथ हिंसायाम् । ण्यत् । विगुधितम् । ११२० गुध परिवेष्टने । कर्मणि क्तः । क्षिप्यता । ११२१ क्षिप प्रेरणे । तच्च निरस- नम् । शंता । पुष्पेति । १९२२ पुष्प विकसने । घनर्थे कः । तिम्यन्मते स्तिम्यति नाम मन्मनः स्तीम्यत्सु तद्रीलमृते वदाम्यहम् । देहि प्रभोः प्रेष्य सुसोहनाय मे जीर्णाशुकायः त्वमझीर्णमंशुकम् ॥ ५७॥ हे तिम्यन्मते आर्दीभवयुद्धे रजक, मन्मनः स्तीम्यत्सु आर्दीभवत्सु स्तिम्यति आर्दी- भवति नाम । तत् तस्मादहं ब्रीलं लज्जामृते वदामि । हे प्रभोः प्रेष्य (सुसोहनाय मे.) जीणोंशुकाय भिन्नाम्बराय मे मां सुसोहनाय सम्यक्तृप्त्यर्थमझीर्ण नवमंशुकै देहिाजीणांशुः क्षीणशोभः कायो यस्य तस्य संबुद्धिर्वा ॥-तिम्यदिति । ११२३ तिम ११२४ स्तुतिमोदमदखानकान्तिगतिषु' इति धातुपाठस्थपाठः