पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। भन्या मृदु मन्दं जक्षतं हसन्तं सलीलं तं दृष्ट्वा विलम्बहेतोः पूर्वमेव दर्शनाभावेन हेतुना समरोदत् । अन्या विलोक्य सुप्ता इव तस्थुः स्तब्धाः सत्य इव तस्थुः । काश्चित् प्राणमाप्य लब्ध्वा इथ उदश्वसन् । उच्छासमकुर्वन् ।--समरोददिति । १०६७ रुदिर अश्रुविमोचने । लडि 'अड् गायेगालवयोः' इत्यडागमः । विदाद्य उदात्ता उदात्तेतः। सुप्ताः । १०६८ नि ष्वप् शये । हलन्त्यम्' इतीत्त्वप्रसङ्गात् नि ष्वप् शये' इत्यप- पाठः । अस्मात् कर्तरि क्ते 'चचिखपि-' इत्युत्वम् । उदश्वसन् । १०६९ श्वस प्राणने । लड् । प्राणम् । १०७० अन च प्रपूर्वत्वाल्लयुट् । जक्षतम् । १०७१ जक्ष भक्षहस- नयोः । शतरि 'नाभ्यस्ताच्छतुः' इति नुमभावः । रुदादि पञ्चकं गतम् ॥ तं जाग्रतं दीनदरिद्रपोषे चकासतं शासतमप्रशान्तान् । देवं स्फुरद्दीधितिमम्बुजाक्ष्यो वेव्यानमालोक्य विमोहमापुः ॥५२॥ अम्बुजाक्ष्यो वेव्यानं गच्छन्तं तं देवमालोक्य विमोहमापुः । कीदृशम् । दीनदरिद्रपोषे जाग्रतम् । दीनानामनाथानां दरिद्राणां च पोषणे अर्धने च जाग्रतमुनिद्रम् । चकासतं खतः शोभमानम् । अप्रशान्तान् । पर्युदासे नञ् । शासतं शिक्षयन्तम् । स्फुरद्दीधिति प्रसरत्कान्तिम् ॥---जाग्रतमिति । १०७२ जागृ निद्राक्षये । शता । दरिद्रेति ।१०७३ दरिद्रा दुर्गतौ । कः । चकासतम् । १०७४ चकासू दीप्तौ । शासतम् । १०७५ शासुअनुशिष्टौ । विविच्य ज्ञापनं तत्। द्वयोः शता। प्राग्वन्नुमभावः । श्वसादय उदात्ताः परस्सैभाषाः । दीधितिम् । १०७६ दीधीङ् दीप्तिदेवनयोः । देवनं क्रीडाविजिगीषादि । अस्मात् क्तिनि ग्रहादित्वादिट् । वेव्यानम् । १०७७ वेवीङ् वेतिना तुल्ये। 'वी गतिप्रजनकान्यसनखादनेषु' इत्युक्तेन वेतिना तुल्येऽर्थ इत्यर्थः । अस्माच्छानच् ॥ कदा न्वहं सस्मि समं रतान्ते प्रसंस्ततानेन वशानुगेन । इत्यादि संबोभुवतोऽभिलाषांस्ता निढुवाना ददृशुस्तमीशम् ॥ ५३ ॥ ताः 'अहं रतान्ते प्रसंस्तता निद्रां गतेन वशानुगेन वाधीनतां प्राप्तेनानेन सह कदा नु सस्मि स्वपिमि' इत्यादि संबोभुवत एवमाद्यहमहमिकया पुनः पुनर्जायमानानभिलाषान् निढुवानाश्चादयन्यः सत्यः तमीशं दहशुः ॥---ससीति । १०७८षस १०७९ सस्ति खप्ने । ससेलेट् । प्रसंस्खता। संस्तः शता । इदित्त्वात् सकारात्पूर्व नुम् । वशेति । १०८० वश कान्तौ । कान्तिरिच्छा । 'वशिरण्योरब्वाच्यः' इत्यप् । घसादय उदात्ता उदात्तेतः । संबोभुवत इति । १०८१ चर्करीत च इति भुवो यड्लुकि शब्लुक् । परस्मैपदे ततः शता । निढुवानाः १०८२ ढुङ् अपहवे । शानच् । अनुदात्त आत्मनेभाषः । लुग्वि- करणं समाप्तम् ॥ १. "प्रपूर्वाल्ल्युडर्थे 'हलच' इति पञ्” इति पाठो भवेत्. २, 'पस्ति' इति पाठः. ३. 'अफ्नयने' इति धातुपाठस्थपाठः.