पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घातुकाव्यम् । क्षपंक्षप पुनः पुनर्विनाशयन् नो मोदं जनयेत् किम् ॥-दलं दलसिलादिचतुए 'दलि- वलि-स्खलि-अपि-क्षपयश्च' इति भोजोक्त्या मित्त्वे ण्यन्तादाभीक्ष्ण्ये णमुल् । 'निलवीप्सयोः' इति द्विरुक्तिः । 'विण्णमुलोर्दीर्घोऽन्यतरस्याम्' इति दीर्घाभावे रूपम् । प्रस्खलयन् । स्खलेगौ शता । जनयेत् । घटायो मितः । 'जनी-जृष्-नसु-रो- ऽमन्ताश्च' इति णौ सित्त्वे जनेलिट् ॥ श्रीकृष्णेन पूर्व सुखितत्वादिदानी पीडाधिक्यमित्याहुः- वाग्भिर्विशङ्कां विजरय्य मारं परिकसय्य स्वसितत्रपेण । अराजि येनाभिरमय्य गूढं वधूजनः स ज्वलयत्यलं नः ।। १५ ।। स्नसितत्रपेण । नसिता निरस्ता या येन तादृशेन । येन वाग्भिर्विशङ्का विजरय्य नाशयित्वा मारं परिकसय्य दीपयित्वा वर्धयित्वा गूढमभिरमय्य वधूजनोऽराजि रञ्जितः स श्रीकृष्णोऽस्मान् अलं ज्वलयति संतापयति ॥--विजरथ्य ! जृषो गिजन्ताल्ल्यप् । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । परिक्लसय्य कसेः प्राग्वल ल्यप् । नसितेति । 'जनीज़- ष्णसु' इति पाठे णिजन्तात् कर्मणि क्तः । अराजि । रजेणौ चिणि 'चिण्णमुलो:-' इति दीर्घः । अभिरमथ्य । अमन्तापिणचि प्राग्वत् ल्यप् । ज्वलयति । 'ज्वल-हल-मल- नमामनुपसर्गाद्वा' इति मित्व विकल्पान्मित्त्वपक्षे णिचि लट् ॥ हा ज्वालयन्ति ह्वलयन्ति चित्तमह्वाल्यवैरिझलकस्य लीलाः । अह्मालितात्मा नमयन्ननाम्यान्स ग्लापयत्यग्लपकः कुतो नः ॥१६॥ अह्वाल्यवैरिह्मलकस्याक्षोभणीयशत्रुक्षोभकस्य तस्य लीलाश्चित्तं ज्वालयन्ति ताप- यन्ति, हलयन्ति क्षोभयन्ति च । हा कष्टममालितात्माक्षोभितमनाः । अनाम्यान् प्रहीकर्तुमशक्यान् नमथन् । अग्लपकोऽपीडकः स कुतो हेतो! स्लापयति पीडयति॥-- ज्वालयन्तीति । ज्वलेरमित्त्वे लट् । हलयन्ति । बलेमित्त्वे लट् । अह्वाल्येति । हुलेर- मित्त्वे ण्यत् । मलकस्य । मलेणौ मित्त्वे प्रवुल् । अल्लालितेति । अमित्त्वे कर्मणि क्तः । नमयन् । अनाम्यान् । नमः शतृण्यत्तौ । ग्लापयति । अग्लपकः । 'ग्ला-वा-व-व- मां च' इति मित्त्वविकल्पे ग्लाधातोर्लण्ण्वुल् च ॥ भगवतो जलक्रीडादिषु स्वाभिमतसिद्धि बकवधायद्भुतकर्म चानुस्मृत्य तस्मिन्नेव मनो लीयत इत्याहुः-- यः नाप्यमानः स्नपयंस्तथास्मान्कृत्स्नं च वान्यं वनयन्नरस्त । अवामयत्संवमितामृजा यो बकेन तं कामयते मनो नः ॥ १७ ॥ योऽस्माभिः स्नाप्यमानः सिच्यभानोऽस्मान् स्वपयन् प्रतिषिचन् कृत्स्नं वान्यम. स्माभिः कारयितव्यं बहु कर्म वनयन् कारयंधारस्त क्रीडितवान् । यो नमितासृजा छ. र्दितरक्वेन बकेन अवामयत् छर्दयामास तं नो मनः कामयते.॥--स्लाप्यमानःस्लपयन्निति। माधातोणी शानच्छता च । वान्यं दनयनिति । वनेय॑च्छता च । अवामयत् वमितेति ।