पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। प्र(अ)ह्मल्यं चलयितुमशक्यं चित्तं यस्यास्ताम् । येन श्रपितं पकं पयोऽपि बालैः प्रयोज्यैः कर्तृभिरनारि नायितम् । मुहुरिति काकाक्षिवदुभयत्रान्वेति । मुहुः संज्ञपिता मारिता असुरा येन तेन 1-~-प्र(अ)मल्येति । हलेणौ ण्यत् । स्मरयति । ८०७ स्मृ आध्याने। सोत्कण्ठस्मरणं तत् । णौ लट् । संदरकः । ८०८ दृ भये । णौ ण्वुल् । अनारि । ८०९ नृ नये । णौ चिण् । श्रपितम् । ८१० श्रा पाके । पाको विक्लित्तिः । श्रायतिश्रात्योर- स्मिन्नर्थे मित्त्वं णौ कर्मणि क्तः । संज्ञपितेति । मारणतोषणनिशामनेषु ८११ शा। निशा- मनं प्रदर्शना । निशातेबित्येके । मारणार्थे कर्मणि क्त: ॥ तापशान्तावन्यथोपार्य संभावयन्ति- तमेव किं विज्ञपयेम मारं येनाच्युतं प्रज्ञपयेन्न बाणान् । करे सरोज चलयन्न चाल्यः स किं मुरारिश्छदयेत्पुनर्नः ॥ १२ ॥ वयं तं मारमेव विज्ञपयेम तोषयेम । किम् । येन तोषणेनासावच्युतं प्रज्ञपयेत् प्रदर्श- येत् । बाणान् न प्रज्ञपयेत् निशातयेत् । स मुरारिलीलया करे सरोजं चलयन् नः छद- येत् किं प्राणनं बा कुर्यात् । अचाल्याः भावादन्यथाकर्तुं अन्यत्र हर्तु नेतुं खचिन्तितं क्षेप्तुं निरसितुं च वा न शक्याः ॥-विज्ञपयेदिति । तोषणे णिचि लिड् । प्रज्ञपयेदिति। निशामननिशातनयोः । चलयनिति । कम्पने ८१२ चलिः। णौ शता । अचाल्यः। कम्पनादन्यत्र मित्त्वाभावे णिजन्ताण्यत् । अन्यथाकरणं हरणं क्षेपो वा तन्नार्थाः । छदयेत् । ८१३ छदिर ऊर्जने । बलनं प्राणनं वा तत् । छदेो लिड् ॥ भगवतो दर्शन व प्रार्थयन्ते- यद्वर्णने को लडयेन जिहां भक्तांश्च दुष्टान्मदयत्यलं यः । दृश्येत वेणुं ध्वनयन्कदा वा स नन्दसूनुः खनयन्कलापम् ॥ १३ ॥ यद्वर्णने को जिहां न लड़येत् क्षोभयेत् । यो भक्तान् दुष्टांश्चालं मदयति अत्यर्थ हर्षयत्ति दीनयति च । स नन्दसूनुर्वेणुं वनयन् शब्दयन् कलापं खनयन् अवतंसीकुर्वन् कदा वास्माभिद्देश्येत ॥-लडयेदिति । जिह्वोन्मथने ८१४ लडिः। उन्मथनं क्षोभणम् । तच्च जिह्वायाः । जिह्वायाः क्षोभणं वा । जिह्वायाः क्षोभणाथै णिचि लिड् । मदयति । ८१५ मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । लट् । ध्वनयन् । ८१६ ध्वन शब्दे । णौ शता । खनयन्। ८१७ स्वन अवतंसने च । चाच्छब्दे । णौ शता। दर्शनप्रकार एव प्राीते- दलं दलं धैर्यभरं कटाक्षान्वलं वलं प्रस्खलयन्मनो न; ! जपं त्रपं नर्मगिरा विषादं क्षष क्षपं कि जनयेत्स मोदम् ।। १४ ॥ मनः प्रस्खलयंश्चलयन् स श्रीकृष्णः कटाक्षान् वलं वलं पुनः पुनः संचारयन् धैर्यस्य भरमतिशयं दलं दलं पुनः पुनर्विदारयन नर्मगिरा पं त्रयं पुनः पुनर्लज्जयन् विषादं