पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। वमेणौ लङ् । कर्मणि कश्च । कामयते इति । 'न कस्यमिचमाम्' इत्यमित्त्वे मिडि वृद्धिः॥ दर्शनमेव प्रार्थयमावा विरमन्ति- तमामयन्तं द्विषतस्तुणं गाः प्रचामयन्तं क निशामयेयम् । निशम्यया मनुगिरा कदा नः स यामयेद्वा यमनादिकायें ॥ १८॥ तं व काले देशे वा निशामयेयं पश्येयम् । कीदृशं तम् । द्विषत आमयन्त पीडय- न्तम् । गास्तृणं प्रवामयन्तमाद्यन्तम् । स निशम्यया श्राव्यया मञ्जगिरा कदा नो यम- नादिकाय परिवेषणादिकर्मणि यामयेत् व्यापारयेत् ॥--आमयन्तमिति । अमेणिचि शतरि मित्त्वाभावे दीर्घः । प्रचामयन्तमिति । चमेः प्राग्वद् । निशामयेयमिति । ८१८ 'शमो- दर्शने' इत्यमित्त्वे णौ लिड् । निशम्यया। अदर्शनार्थत्वेन मित्त्वे णिचि ण्यत् । यामयेत्। ८१९ 'यमोऽपरिवेषणे' इत्यमित्त्वे गौ लिड् । व्यापारणात्रार्थः । यमनेति । परिवे- षणार्थे णौ मित्त्वे ल्युट् ॥ उक्तं गोपीविलासमुपसंहरति- इत्याद्यवस्खादितमानसास्ता बालाः परिस्खादितधैर्यबन्धाः । दुष्टानपस्खादयितुं प्रयाते कृष्णे विलेपुः फणिता विमोहम् ॥ १९॥ कृष्णे दुष्टानपस्खादयितुं विदारयितुं प्रयाते सति । ता बाला विमोहं फणिताः प्राप्ता इत्यादि विलेपुः । कीदृश्यः। अवस्खादितं विदारितं मानस यासां ताः। परिस्खा- दत्तो नाशितो धैर्यवन्धो यासां ताः ॥-अवस्खादितेति । ८२० 'स्खदिर् अवपरिभ्यां च' इति मित्त्वनिषेधाणिचि दीर्घे कर्मणि क्तः। परिस्खादितेति तद्वत् । अपस्खादयि- तुमिति । 'अपावपरिभ्यश्चेत्येके' इत्यपात् परस्य स्खदेरमित्त्वे णिचि तुमुन् । फणिता इति । ८२१ फण गतौ । कतरि । वृत् घटादिवृत्तः । ज्वरादय उदात्ता उदात्तेतः ॥ प्रस्थितस्य भगवतः श्रीकृष्णस्यावस्थामाह- कृष्णोऽपि रेजे पथि गोपबालैोजिष्णुभिर्धाशितपार्श्वदेशः । विभ्लाशितेऽकररथे सरामः स्यमत्पयोदस्वभाजि तिष्ठन् ॥ २० ॥ कृष्णोऽप्यक्रूररथे सरामस्तिष्ठन् पथि रेजे । भ्राजिष्णुभिः शोभमानैर्गोपबालैना- शितपार्श्वदेशः शोभितपार्श्वभागः । स्यमत्पयोदस्य शब्दायमानमेघस्य खनमिव खनं भ- जलाश्रयति यत्तस्मिन् रथे ॥--रेजे इति । ८२२ राज दीप्तौ । उदात्तः स्वरितेत् । अस्मालिटि 'फणां च सप्तानाम्' इत्येत्त्वाभ्यासलोपविकल्पः । ८२३ टुभ्राजू ८२४ टुम्राट ८२५ टुझ्लास्ट दीप्तौ । उदात्ता अनुदात्तेतः । प्राजेः 'अलंकृन्-' आदिना ताच्छील्ये इष्णुच् । भ्राशितभ्लाशिवेति । द्वयोः कर्तरि क्तः । स्थमदिति । ८२६ स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । क्षमान्ता उदात्ता अनुदात्तेतः । स्थमेः शता । स्वनेति 'वनहसोवा' इत्यप् । खनान्ताः सप्त फणादयः ।।