पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १११ सा देवकी तरसा आजिहानमागच्छन्तं कंसमवेक्ष्याजां कन्यारूपां महामायां संपरिषस्वजे दृढं परिरब्धवती, अतितरां अरोदच्च । कुमारजीवादं जीवमत्तीति । क्रव्यात्सदृक्षं राक्षसतुल्यम्।प्रलापिनी प्रलपनशीला॥-परिषस्वज इति । 'प्रादयः' 'उपसर्गाः क्रियायोगे' इत्युपसर्गसंज्ञा । 'उपसर्गात्सुनोतिसुवतिस्थतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वजाम्' इति षत्वम् । अवेक्ष्येति । 'गतिश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति समासः। जीवादमिति । 'अदोऽनन्ने' इति विट् । क्रव्यादिति । 'क्रव्ये च' इति विट् । सदृक्षमिति । 'क्सश्च वक्तव्यः' इति क्सः । 'दृशे चेति वकाव्यम्' इति समानस्य सभावः ॥

सुकर्मणः क्ष्माविबुधान्हविर्दुघास्तथार्जुनीर्गाः स्म निहन्ति सत्कषम् । अनान्नसुत्रामककाङ्क्षितापदं न लालपा सा तमचीकरत्कृपाम् ॥ ४६॥ सा लालपा भृशा(?)तं कंसं कृपां नाचीकरत् कारयामास । सत्कषं सतः कषति पीडयति इति । अनान्नसुत्रामककाङ्क्षितापदं आन्ना अन्नं लब्धारः सुत्रामा ग्रामणीः श्रेष्ठो येषां सुत्रामका देवास्तैः काङ्क्षिता आपद्यस्य । सु कर्मणः क्ष्माविबुधान् , तथा हविर्दुधा अर्जुनीर्गाश्च, निहन्ति स्म हतवान् । शोभनं कुर्वन्तीति सुकर्माणः । हविर्दुहन्तीति हविर्दुघाः ॥--तमिति । 'हृक्रोरन्यतरस्याम्' इति वा कर्मसंज्ञा । य इति । 'स्वतन्त्रः कर्ता' इति कर्तृसंज्ञा । तिडाभिहितत्वात् तृतीयाभाव. । लालपेति । तत्प्रयोजको हेतुश्च' इति हेतुसंज्ञा कर्तृसंज्ञा च। हेतुत्वाणिचो निमित्तं कर्तृत्वाच्च तिड्प्रत्यय.। नेति । 'प्राग्रीश्वरान्निपाताः' इत्यधिकृत्य 'चादयोऽसत्वे' इति निपातसंज्ञा । 'स्वरादिनिपातमव्ययम्' 'अव्ययादाप्सुपः' इति सुपो लुक् । हविर्दुघा इति । 'दुहः कब्घश्च' इति कप् । घकारश्चान्तादेशः । सुत्रामेति । 'त्रैड् पालने' । 'आतो मनिन्क्वनिब्वनिपश्च' इति मनिन् । सुकर्मण इति । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । सत्कषमिति । 'क्विप्च' इति किप् । सुत्रामकेति 'स एषां ग्रामणीः' इति कन् ।

शूत्कुर्वता तीव्रमसाधुकारिणा कंसेन सा रोषभयातुरीसता । दीनामसत्कृत्य सहोदरां हठादग्राहि कन्या जगतामलंकृतिः ॥ ४७ ॥ कंसेन सहोदरां देवकीमसत्कृत्यानादृत्य सा कन्या हठादग्राहि । तीव्रं शूत्कुर्वता । असाधुकारिणा । रोषभयातुरीसता(?)रोषभयातुरीभवता । दीनाम् । जगतामलंकृतिः॥--आतुरीसतेति । 'अमूततद्भावे' इति च्विः । 'ऊर्यादिच्विडाचश्च' इति गतिसंज्ञा। शूत्कुर्वतेति । 'अनुकरणं चानितिपरम्' इति गतिसंज्ञा । असत्कृत्येति । 'आदरानादरयोः सदसती' इति गतिसंज्ञा । अलंकृतिरिति । 'भूषणेऽलम्' इति गतिसंज्ञा । असाधुकारिणेति। 'सुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः। सहोदरामिति । सहशब्दोऽत्र समानार्थे ॥

इमां मृदित्वा सुहृदां पुरस्कृतस्तेभ्यः कणेहत्य ददान ईप्सितम् । अनस्तमित्यार्दयितास्मि सुत्वनस्तामित्यदःकृत्य निरास सोऽश्मनि॥४८ अदःकृत्य कर्तव्याकर्तव्यं निश्चित्य तामश्मनि निरास चिक्षेप । इमां मृदित्वा संचूर्ण्य ।