पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० काव्यमाला । स्थचित्तः ।--तदिति। 'उपान्वध्याङ्वसः' इति कर्मसंज्ञा । दधृगिति । 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिक्रुञ्चां च' इति क्विन्प्रत्ययान्तो निपातितः । गत्वेति । 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्डिति' इति नलोपः । अनुस्वारोत्तमा अनुनासिका इति प्रातिशाख्ये । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः ।विरत्येति । 'वा ल्यपि' इति मलोपः । मान्तानां विकल्पेन अन्येषां नित्यम् ॥

स्वरेण पुर्यन्तगताथ बाला सा तादृशेनातितरामरोदीत् । स्वापेन काष्ठैः सदृशः शयानः स यादृशाबुध्यत रक्षिवर्गः ॥ ४२ ॥ अथ सा बाला तादृशेन स्वरेण अतितरां अरोदीत् । यादृशा स रक्षिवर्गोऽवुध्यत । पुर्यन्तगता पुर्यन्तं गच्छता स्वरेण । स्वापेन निद्रया काष्ठैः सदृशः शयानः ॥-तादृशेनेति ! 'त्यदादिषु दृशोऽनालोचने कञ्च' इति कञ् । यादृशेति । कञ्चेति चकरात् क्विन् सदृश इति । 'समानान्ययोश्चेति वक्तव्यम्' इति कञ् । 'दृग्दृशवतुषु' इति समानस्य सादेश । तादृशादयो रूढिशब्दाः । पुर्यन्तगता इति । 'गमः क्वौ' 'गमादीनामिति वक्तव्यम्' इति मलोपे तुक् ॥

नालोकयत्किंचन नाशृणोद्वा न चावदत्किंचन कंचनावपि । जातत्वराभीतिरुपेत्य कंसं प्राबूबुधत्स प्रसवं भगिन्याः ॥ ४३ ॥ स रक्षिवर्गः, किंचन वस्तु नालोकयत् , नाशृणोत् वा, कंचनावपि किंचन नावदत् ,जातत्वराभीतिः उपेत्य कंसं भगिन्याः प्रसवं प्राबूबुधत् निवेदयामास ॥-प्रसवमिति । 'कर्तुरीप्सिततमं कर्म' इति कर्मसंज्ञाया 'कर्मणि द्वितीया'। किंचनेति । 'तथायुक्तं चानीप्सितम्' इति कर्मसंज्ञा । कंचनेति । 'अकथितं च' इति कर्मसंज्ञा । कंसमिति । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ' इति कर्मसंज्ञा । जातेति । 'जनसनखनां सन्झलोः' इत्याकारादेशः ॥

जाजायमानेन भयेन नभ्राडतायताथो सहसोत्थितश्च । मित्त्रध्रुगादीनवभावप्रकम्पः कंस: समाभ्रञ्च जवादरिष्टम् ॥ ४४ ॥ अथो कंसो जाजायमानेन भृशं जायमानेन भयेन नभ्राट् शोभारहितः अतायत अकारि । सहसा उत्थितश्च जवादरिष्टं सूतिकागृहं समाभ्रत् गतवांश्च । मित्त्रध्रुक् । मित्त्रेभ्यो द्रुह्यति इति । आदीनबभाक् आदीनवः क्लेशः प्रकम्पः ॥ मित्रत्रुगिति । 'सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्' इति क्विप् । आदीनवभागिति। 'भजो ण्विः'। जाजायमानेति । यड् । 'ये विभाषा' इत्याकारः । 'जञ्जन्यमानेन' इति वा पाठः । अतायतेति यड् । 'तनोतेर्यकि' इति वा आकारः । 'अतन्यत' इति वा पाठः ॥

कुमारजीवादमवेक्ष्य कंसं क्रव्यात्सदृक्षं तरसाजिहानम् । सा देवकी संपरिषस्वजेऽजां प्रलापिनी चातितरामरोदत् ॥ ४५ ॥