पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ काव्यमाला । अनस्तमित्य मृतिमप्राप्य सुत्वनो यागसंवन्धिस्नानं कृतवतो यज्वनोऽर्दयितास्मि पीडयिष्यामि । सुहृदां पुरस्कृतः पूजितः । तेभ्य ईप्सितं वस्तु कणैहत्य श्रद्धां प्रतिहत्व ददानः॥--कणेहत्येति । 'कणेमनसी श्रद्धाप्रतीघाते' इति गतिसंज्ञा । पुरस्कृत इति । 'पुरोऽव्ययम्' इति गतिसंज्ञा । अनस्तमित्येति । 'अस्तं च' इति गतिसंज्ञा । अद.कृत्येति । 'अदोऽनुपदेशे' इति गतिसंज्ञा । सुत्वन इति । 'सुयजोर्ड्वनिप् ॥ सुरवैरिवनानि भर्ष्टुरेनामनुजां बाल्यतिरोहितानुभावाम् । स तिरस्कृतभीः प्रमोदभूम्ना क्षिपमाणः स्म विभाति सिंहनादी॥४९॥ एनां क्षिपमाणो विभाति स्म । सुरवैरिवनानि भष्टुरनुजाम् बाल्यतिरोहितानुभावाम् । प्रमोदभूम्ना तिरस्कृतभीः सिंहनादी सिंहवन्नदन् ।-तिरोहितेति । 'तिरोऽन्तधौं इति गतिसंज्ञा । तिरस्कृतेति । 'विभाषा कृञि' इति वा गतिसंज्ञा । सिंहनादीति । 'कर्तर्युपमाने' इति णिनिः । अनुजामिति । अनु पश्चाज्जायते इति 'अन्येष्वपि दृश्यते' इति डः । भर्ष्टुरिति । 'आर्धधातुके' इत्यधिकृत्य 'भ्रस्जो रोपधयो रमन्यतरस्याम्' इति रेफोपधयो रमादेशः ॥

अभ्रे ततो निजचिकीर्षितमालुनानां सब्रह्मचारिमहसं नवमेघभायाः । तां ब्रह्मवादिविमलात्मगुहैकसिंहीं साक्षाच्चकार सहसा सहसां स कंसः ॥ ५० ॥ ततः स कंसः सहसा तामभ्रे आकाशे साक्षाच्चकार दृष्टवान् । निजचिकीर्षितमालुनानां छिन्दन्तीं नवमेधभायाः सब्रह्मचारिमहसं श्यामवर्णाम् । ब्रह्मवादिविमलात्मगुहैकसिंहीँ ब्रह्मवादिनामपूर्णंमन्यताभिन्नवेद्यप्रथाशुभाशुभकर्मवासनालक्षणमलत्रयरहित आत्माबुद्धिरेव गुहा तत्राद्वितीयतया स्फुरन्तीं सहसां हसेन हासेन सह वर्तमानाम् ॥-साक्षाच्चकारेति । 'साक्षात्प्रभृतीनि च' इति गतिसंज्ञा । ब्रह्मवादीति । ब्रह्मणि (?) वदतीति णिनिः । ब्रह्मचारीति । 'व्रते' इति णिनिः । चिकीर्षितमिति । सनोऽकारस्य 'अतो लोपः' इत्यकारस्य लोपः । सिंहीमिति । जातिलक्षणो डीष् ॥

आत्तायुधाहितजनैः सह संयतित्री शत्रोमनोरथशतान्यथ बेभिदित्री । आकाशचारिवनिताभिरुपास्यमाना साह स्म तन्मनसिकृत्य महान्तमर्थम् ॥ ५१ ॥ अथ सा महान्तमर्थं मनसिकृत्य निश्चित्य तमाह स्म । अहितजनैः सह संयतित्री योद्धुमिच्छन्ती इव आत्तायुधा शत्रोः कंसस्य मनोरथशतानि बेभिदित्री भृशं भेत्त्री। आका-