पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ काव्यमाला ।

प्रतीपवृत्तैर्गरुडाश्मदण्डसध्र्यग्भिरिन्द्रारिषु बाहुदण्डैः । सम्यक्षु सक्तैश्चरितेषु भान्तं हृदे समेषामपि रोचमानैः ॥ १३ ॥ क्षेमंकरैः पुण्यवतामरीणां भयंकरैर्नित्यमनन्यदास्थैः । पनायितं वैतनिकैरिवास्त्रैः क्षीरार्णवानूपविहारलोलम् ॥ १४ ॥ कदर्थितानर्थमनन्यदर्थं स्वाभ्यां स्वधामेत्यं नवं नुवानम् । दृग्भ्यां न धारू न परं तमेतौ जगन्ति चानन्दरसे न्यमाङक्षुः ॥ १५ ॥ तं दृग्भ्यां धारू साधु पिबन्तौ एतौ देवकीवसुदेवौ न परं केवलं न अपि तु जगन्ति च आनन्दरसे न्यमाङ्क्षुः न्यमज्जयन् । स्वाभ्यामात्मभ्यां स्वधाम स्वदेहं अपह्नुवानं प्रकाशयन्तम् । पुरंदराश्मद्युतिचौर्यधुर्यविष्वद्र्यगक्षमामहःप्रवाहम् । पुरंदराश्मा इन्द्रनीलः । विष्वद्र्यक् समन्ततो व्याप्नुवत् । सारसनप्रभोर्मीसौदामनीनूतनवारिवाहम् । सारसनं काञ्ची । सर्वंसहादुर्विषहामनस्यसर्वंकषम् । सर्वसहा भूमिः । आमनस्यं दुःखम् । सर्वंपथीनवीर्यं सर्वपथं व्याप्नुवत् । प्रत्युरसं उरसि श्रीकौस्तुभं दधानम् । रमाया यथामुखीनं मुखप्रतिबिम्बदर्शनाधिकरणं मुकुरम् । बाहुदण्डैर्भान्तम् । इन्द्रारिषु प्रतीपवृत्तैः प्रतिकूलव्यापारैः । गरुडाश्मसध्र्यग्भिःमरकतदण्डसदृशैः । सध्र्यड् सहायः । सम्यक्षु शुभेषु चरितेषु सक्तैः समेषां सर्वेषामपि हृदे रोचमानैः चित्तं स्वविषये स्पृहां कारयद्भिः । अस्त्रैः चक्राद्यायुधैः पनायितं स्तुतं वैतनिकैः वेतनेन जीवद्भिरिव । पुण्यवतां क्षेमंकरैः । अरीणां नित्यं भयंकरैः । अनन्यदास्थैः आस्थान्तररहितैः । क्षीरार्णवानूपविहारलोलम् । अनूपं जलप्रायो देशः । कदर्थितानर्थम् । कदर्थीकृता अनर्था आपदो थेन । अनन्यदर्थम् ॥-हृदे इति । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानसंज्ञा । स्वाभ्यामिति । 'श्लाघहुङ्स्थाशपां ज्ञीप्स्यमानः' इति संप्रदानसंज्ञा । पुरंदरसर्वंसहेति । 'पूःसर्वयोर्दारिसहोः' इति खच् । क्षेमंकरैरिति । 'क्षेमप्रियभद्रेऽण् च' इति खच् । विष्वद्र्यगिति । 'ऋत्विग्दधृक्स्त्रग्दिगुष्णिगञ्चुयुजिकुञ्चां च' इति क्विन् । 'विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये' इत्यद्र्यादेशः । सम्यक्ष्विति । 'समः समि' । तिर्यगिति 'तिरसस्तिर्यलोपे च' । सध्र्यग्भिरिति 'सहस्य सध्रिः' । प्रतीपेति । प्रतिगता आपोऽस्मिन्निति । 'द्व्यन्तरूपसर्गेभ्योऽप ईत्' इत्याकारस्य ईकारः ॥ 'आदेः परस्य'। अनूपेति। 'ऊदनोर्देशे' इत्यूकारः । अनन्यदास्थैरिति । 'अषष्ठ्यतृतीयास्थस्य दुगाशीराशास्यास्थितोत्सुकोतिकारकरागच्छेषु' इति दुगागमः । अनन्यदर्थमिति । 'अर्थे विभाषा' इति दुक् । कदर्थितेति । कुत्सितोऽर्थः कदर्थः । 'कोः कत्तत्पुरुषेऽचि' इति कदादेशः । चौर्येति । ब्राह्मणादिपाठात् ष्यञ्। सौदामनीति । सुदाम्ना पर्वतेन एकदिक् । 'तेनैकदिक्' इत्वड् । 'टिड्ढाणञ्-' इति डीप् । नूतनेति । 'नवस्य नूत्नतनखाश्च' इति स्वार्थे तनप्रत्ययो नू आदेशश्च । सर्वपथीनेति । 'तत्सर्वादेः पथ्यङ्ग' इति ख.। यथामुखीनमिति । 'यथामुखसंमुखस्य दर्शनः खः'। वैतनिकैरिति । वेतनैर्जीवन्तीति ठक् ।